आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति । अदायि । अधायि । कृति - दायः । दायकः । धायः । धायकः । चिण्कृतोः इति किम् ? ददौ । दधौ । चौडिः, बालाकिः, बाह्वादित्वात् इञ् । ज्ञा देवता अस्य ज्ञः ॥ न+उदात्त-उपदेशस्य म-अन्तस्य अनाचमेः
ākārāntasya aṅgasya ciṇi kṛti ñṇiti yugāgamo bhavati / adāyi / adhāyi / kṛti - dāyaḥ / dāyakaḥ / dhāyaḥ / dhāyakaḥ / ciṇkṛtoḥ iti kim ? dadau / dadhau / cauḍiḥ, bālākiḥ, bāhvāditvāt iñ / jñā devatā asya jñaḥ // na+udātta-upadeśasya ma-antasya anācameḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.