सर्वं निवृत्तम्, अङ्गस्य इति वर्तते । अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्य् एतेषाम् अङ्गानाम् आकारान्तानां च पुगागमो भवति णौ परतः । अर्ति - अर्पयति । ह्री - ह्रेपयति । व्ली - व्लेपयति । री - रेपयति । क्नूयी - क्नोपयति । क्ष्मायी - क्ष्माप्यति । आकारान्तानाम् - दापयति । धापयति । अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोर् अपि धात्वोर् ग्रहणम् । री इत्य् अपि री गतिरेषणयोः, रीङ् श्रवणे इति । पुकः पूर्वान्तकरणम् अदीदपत् इत्य् अत्र उपधाह्रस्वो यथा स्यात् इति ॥ शा-च्छा-सा-ह्वा-व्या-वे-पां युक्
sarvaṃ nivṛttam, aṅgasya iti vartate / arti hrī vlī rī knūyī kṣmāyī ity eteṣām aṅgānām ākārāntānāṃ ca pugāgamo bhavati ṇau parataḥ / arti - arpayati / hrī - hrepayati / vlī - vlepayati / rī - repayati / knūyī - knopayati / kṣmāyī - kṣmāpyati / ākārāntānām - dāpayati / dhāpayati / arti iti ṛ gatiprāpaṇayoḥ, ṛ gatau iti dvayor api dhātvor grahaṇam / rī ity api rī gatireṣaṇayoḥ, rīṅ śravaṇe iti / pukaḥ pūrvāntakaraṇam adīdapat ity atra upadhāhrasvo yathā syāt iti // śā-cchā-sā-hvā-vyā-ve-pāṃ yuk
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.