एषाम् आतः स्थाने यो ऽकारस् तस्य इत्वं न भवति उदीचामाचर्याणां मतेन । भस्त्रा - भस्त्रका, भस्त्रिका । अभस्त्रका, अभस्त्रिका । एषा - एषका, एषिका । अजा - अजका, अजिका । अनजका, अनजिका । ज्ञा - ज्ञका ज्ञिका । अज्ञका, अज्ञिका । द्वा - द्वके, द्विके । स्वा - स्वका, स्विका । अस्वका, अस्विका । एषाद्वे नञ्पूर्वे न प्रयोजयतः । किं कारणम् ? तत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद् य विभक्तिर् उत्पद्यते तस्यां सत्यां त्यदात्यत्वे सति टापा भवितव्यम्, सो ऽन्तर्वर्तिन्या विभक्त्या सुबन्तात् परः इति इत्वस्य प्राप्तिर् एव न अस्ति । तेन अनेषका, अद्वके इत्य् एव नित्यं भवितव्यम् । स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वो ऽपि प्रयोजयति । भस्त्रा इत्य् अयम् अभाषितपुंस्कः, तस्य अभाषितपुंस्काच् च (*७,३।४८) इत्य् एव सिद्धे यद् इह ग्रहणं तदुपसर्जनार्थम् । अविद्यमाना भस्त्रा यस्याः अभस्त्रा । साल्पा अभस्त्रका, अभस्त्रिका । अत्र उपसर्जनह्रस्वत्वे कृते पुनर् बहुव्रिहौ कृते भाषितपुंस्काद् यः टाप् उत्पद्यते तस्य के ऽणः (*७,४।१३) इति यो ह्रस्वः, न असौ अभासितपुंस्काद् विहितस्य अतः स्थाने भवति । नञ्पूर्वाणाम् अपि इत्य् अपिशब्दाद् अन्यपूर्वाणां केवलानां च विधिर् अयम् इष्यते । निर्भस्त्रका, निर्भस्त्रिका, बहुभस्त्रका, बहुभस्त्रिका, इत्य् एवम् अनयोर् अपि इष्यते । अत्र नञ्पूर्वाणाम् इति वचनम् अनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः ॥ अभाषितपुंस्काच् च
eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati udīcāmācaryāṇāṃ matena / bhastrā - bhastrakā, bhastrikā / abhastrakā, abhastrikā / eṣā - eṣakā, eṣikā / ajā - ajakā, ajikā / anajakā, anajikā / jñā - jñakā jñikā / ajñakā, ajñikā / dvā - dvake, dvike / svā - svakā, svikā / asvakā, asvikā / eṣādve nañpūrve na prayojayataḥ / kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ nañsamāsaḥ, athāpi kṛte nañsamāse paścādakac, ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so 'ntarvartinyā vibhaktyā subantāt paraḥ iti itvasya prāptir eva na asti / tena aneṣakā, advake ity eva nityaṃ bhavitavyam / svaśabdastu jñātidhanākhyāyāṃ nañpūrvo 'pi prayojayati / bhastrā ity ayam abhāṣitapuṃskaḥ, tasya abhāṣitapuṃskāc ca (*7,3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham / avidyamānā bhastrā yasyāḥ abhastrā / sālpā abhastrakā, abhastrikā / atra upasarjanahrasvatve kṛte punar bahuvrihau kṛte bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād vihitasya ataḥ sthāne bhavati / nañpūrvāṇām api ity apiśabdād anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam iṣyate / nirbhastrakā, nirbhastrikā, bahubhastrakā, bahubhastrikā, ity evam anayor api iṣyate / atra nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ // abhāṣitapuṃskāc ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.