इस् उस् इत्य् एवम् अन्तानाम् उगन्तानां तान्तानां चाङ्गानाम् उत्तरस्य ठस्य कः इत्य् अयम् आदेशो भवति । इस् - सार्पिष्कः । उस् - धानुष्कः । याजुष्कः । उक् - नैषादकर्षुकः । शाबरजम्बुकः । मातृकम् । पैतृकम् । तान्तात् - औदश्वित्कः । शाकृत्कः । याकृत्कः । इसुसोः प्रतिपदोक्तयोर् ग्रहणाद् इह न भवति, आशिषा चरति आशिषिकः । उषा चरति औषिकः । दोष उपसङ्ख्यानम् । दोर्भ्यां तरति दौष्कः ॥ च-जोः कु घिण्-ण्यतोः
is us ity evam antānām ugantānāṃ tāntānāṃ cāṅgānām uttarasya ṭhasya kaḥ ity ayam ādeśo bhavati / is - sārpiṣkaḥ / us - dhānuṣkaḥ / yājuṣkaḥ / uk - naiṣādakarṣukaḥ / śābarajambukaḥ / mātṛkam / paitṛkam / tāntāt - audaśvitkaḥ / śākṛtkaḥ / yākṛtkaḥ / isusoḥ pratipadoktayor grahaṇād iha na bhavati, āśiṣā carati āśiṣikaḥ / uṣā carati auṣikaḥ / doṣa upasaṅkhyānam / dorbhyāṃ tarati dauṣkaḥ // ca-joḥ ku ghiṇ-ṇyatoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.