तेषाम् उप्रत्ययः निपातनाद् एव । तक्रम् वक्रम् इति पञ्चतेर् वञ्चतेश् च स्फायितञ्चिवञ्चि इत्य् आदिना सूत्रेण रक् । व्यतिषङ्गः - व्यतिषजति इति पचाद्यच् । अनुषङ्गः । अवसर्गः । उपसर्गः । श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण् प्रत्ययः । सञ्ज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः । न्यग्रोधः, वीरुद् इत्य् अत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते । न्यग्रोहयति न्यग्रोधः । विरोहयति इति वीरुत् ॥ हो हन्तेर् ञ्-णिन्-नेषु
teṣām upratyayaḥ nipātanād eva / takram vakram iti pañcater vañcateś ca sphāyitañcivañci ity ādinā sūtreṇa rak / vyatiṣaṅgaḥ - vyatiṣajati iti pacādyac / anuṣaṅgaḥ / avasargaḥ / upasargaḥ / śvapākaḥ, māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ iti karmopadādaṇ pratyayaḥ / sañjñāyā anyatra arhaḥ, avadāhaḥ, nidāhaḥ / nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ pacādyaci, vipūrvasya kvipi dhakāro vidhīyate / nyagrohayati nyagrodhaḥ / virohayati iti vīrut // ho hanter ñ-ṇin-neṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.