जागु इत्य् एतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः । जागरयति । जागरकः । साधुजागरी । जागरंजागरम् । जागरो वर्तते । जागरितः । जागरितवान् । वॄद्धिविषये प्रतिषेधविषये च यथा स्यात् इति जागर्तेर् अयं गुणः आरभ्यते । तस्मिन् कृते या अत उपधायाः (*७,२।११६) वृद्धिः प्राप्नोति सा न भवति । यदि हि स्यात् अनर्थक एव गुणः स्यात्, चिण्णलोश् च प्रतिषेधवचनम् अनर्थकम् । अविचिण्णल्ङित्सु इति किम् ? जॄशॄस्तृर्जागृभ्यः क्विन् जागृविः । चिण् - अजागारि । णल् - जजागार । ङित् - जागृतः । जागृथः । वि इति केचिद् इकारम् उच्चारणार्थं वर्णयन्ति, क्वसाव् अपि वकारादौ गुणो न भवति । जजागृवान् । अजागरुः, अहं जजागर इत्य् अत्र प्रतिषेधः प्राप्नोति ? न, अप्रतिषेधात् । अविचिण्णल्ङित्सु इति पर्युदासो ऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते । या तु जुसि च (*७,३।८३), सार्वधातुकार्धधातुकयोः (*७,३।८४) इति च प्राप्तिः , सा न प्रतिषिध्यते ॥ पुगन्त-लघूपधस्य च
jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ / jāgarayati / jāgarakaḥ / sādhujāgarī / jāgaraṃjāgaram / jāgaro vartate / jāgaritaḥ / jāgaritavān / vṝddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ ārabhyate / tasmin kṛte yā ata upadhāyāḥ (*7,2.116) vṛddhiḥ prāpnoti sā na bhavati / yadi hi syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam anarthakam / aviciṇṇalṅitsu iti kim ? jṝśṝstṛrjāgṛbhyaḥ kvin jāgṛviḥ / ciṇ - ajāgāri / ṇal - jajāgāra / ṅit - jāgṛtaḥ / jāgṛthaḥ / vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo na bhavati / jajāgṛvān / ajāgaruḥ, ahaṃ jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt / aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate / yā tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , sā na pratiṣidhyate // puganta-laghūpadhasya ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.