अभ्यस्तसञ्ज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति । नेनिजानि । वेविजानि । परिवेविषाणि । अनेनिजम् । अवेविजम् । पर्यवेविषम् । अभ्यस्तस्य इति किम् ? वेदानि । अचि इति किम् ? नेनेक्ति । पिद्ग्रहणम् उत्तरार्थम् । सार्वधातुके इति किम् ? निनेज । लभूपधस्य इत्य् एव, जुहवानि । अजुहवम् । बहुलं छन्दसीति वक्तव्यम् । जुजोषत् इति यथा स्यात् । पस्पशाते । चाकशीति । वावशीति । यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम् । पस्पशाते इत्य् अत्र अभ्यासह्रस्वत्वं च । प्रकृत्यन्तराणां वा स्पशिकशिवशीनाम् एतानि रूपाणि ॥ भू-सुवोस् तिङि
abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti sārvadhātuke guṇo na bhavati / nenijāni / vevijāni / pariveviṣāṇi / anenijam / avevijam / paryaveviṣam / abhyastasya iti kim ? vedāni / aci iti kim ? nenekti / pidgrahaṇam uttarārtham / sārvadhātuke iti kim ? nineja / labhūpadhasya ity eva, juhavāni / ajuhavam / bahulaṃ chandasīti vaktavyam / jujoṣat iti yathā syāt / paspaśāte / cākaśīti / vāvaśīti / yaṅluki chāndasamupadhāhrasvatvaṃ draṣṭavyam / paspaśāte ity atra abhyāsahrasvatvaṃ ca / prakṛtyantarāṇāṃ vā spaśikaśivaśīnām etāni rūpāṇi // bhū-suvos tiṅi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.