सार्वधातुके पिति इति वर्तते । उकारान्तस्य अङ्गस्य वृद्धिर् भवति लुकि सति हलादौ पिति सार्वधातुके । यौति । यौषि । यौमि । नौति । नौषि । नौमि । स्तौति । स्तौषि । स्तौमि । उतः इति किम् ? एति । एषि । एमि । लुकि इति किम् ? सुनोति । सुनोषि । सुनोमि । हलि इति किम् ? यवानि । रवाणि । पिति इत्य् एव, युतः । रुतः । अपि स्तुयाद् राजानम् इत्य् अत्र हि ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद् वृद्धेर् अभावः । न अभ्यस्तस्य इत्य् एतद् इह अनुवर्तते, योयोति, रोरोति इत्य् एवम् आद्यर्थम् ॥ ऊर्णोतेर् विभाषा
sārvadhātuke piti iti vartate / ukārāntasya aṅgasya vṛddhir bhavati luki sati halādau piti sārvadhātuke / yauti / yauṣi / yaumi / nauti / nauṣi / naumi / stauti / stauṣi / staumi / utaḥ iti kim ? eti / eṣi / emi / luki iti kim ? sunoti / sunoṣi / sunomi / hali iti kim ? yavāni / ravāṇi / piti ity eva, yutaḥ / rutaḥ / api stuyād rājānam ity atra hi ṅicca pinna bhavati iti pittvapratiṣedhād vṛddher abhāvaḥ / na abhyastasya ity etad iha anuvartate, yoyoti, roroti ity evam ādyartham // ūrṇoter vibhāṣā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.