अस्तेर् अङ्गात् सिजन्ताच् च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति । अस्तेः - आसीत् । आसीः । सिजन्तात् - अकार्षीत् । असावीत् । अलावीत् । अपावीत् । अपृक्ते इति किम् ? अस्ति । अकार्षम् । आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन+इह न भवति, आत्थ, अभूत् इति ॥ बहुलं छन्दसि
aster aṅgāt sijantāc ca parasya apṛktasya sārvadhātukasya īḍāgamo bhavati / asteḥ - āsīt / āsīḥ / sijantāt - akārṣīt / asāvīt / alāvīt / apāvīt / apṛkte iti kim ? asti / akārṣam / āhibhuvorīṭi pratiṣedhaḥ iti sthānivadbhāvapratiṣedha tena+iha na bhavati, āttha, abhūt iti // bahulaṃ chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.