रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति । अरोदीत् । अरोदीः । अस्वपीत् । अस्वपीः । अश्वसीत् । अश्वसीः । प्राणीत् । प्राणीः । अजक्षीत् । अजक्षीः । पञ्चभ्यः इति किम् ? अजागर्भवान् । अपृक्तस्य इत्य् एव, रोदिति ॥ अड् गार्ग्यगालवयोः
rudādibhyaḥ parasya sārvadhātukasya halādeḥ apṛktasya īḍāgamo bhavati / arodīt / arodīḥ / asvapīt / asvapīḥ / aśvasīt / aśvasīḥ / prāṇīt / prāṇīḥ / ajakṣīt / ajakṣīḥ / pañcabhyaḥ iti kim ? ajāgarbhavān / apṛktasya ity eva, roditi // aḍ gārgyagālavayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.