ऋच्छतेर् अङ्गस्य, ऋ इत्य् एतस्य, ॠकारान्तानां च लिटि परतो गुणो न भवति । ऋच्छ - आनर्च्छ, आनर्च्छतुः, आनर्च्छुः । ऋ - आरतुः, आरुः । ॠकारान्तानाम् - निचकरतुः, निचकरुः । निजगरतुः, निजगरुः । ऋच्छेर् अलघूपधत्वाद् अप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः । वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिर् एव+इष्यते । निचकार । निजगार ॥ शॄ-दॄ-प्रां ह्रस्वो वा
ṛcchater aṅgasya, ṛ ity etasya, ṝkārāntānāṃ ca liṭi parato guṇo na bhavati / ṛccha - ānarccha, ānarcchatuḥ, ānarcchuḥ / ṛ - āratuḥ, āruḥ / ṝkārāntānām - nicakaratuḥ, nicakaruḥ / nijagaratuḥ, nijagaruḥ / ṛccher alaghūpadhatvād aprāpto guṇo vidhīyate, ṝtāṃ tu pratiṣiddhaḥ / vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhir eva+iṣyate / nicakāra / nijagāra // śṝ-dṝ-prāṃ hrasvo vā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.