ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङ् इत्य् अयम् आदेशो भवति । मात्रीयति । मात्रीयते । पित्रीयति । पित्रीयते । चेक्रीयते । मात्रीभूतः । क्ङिति इत्य् एतन् निवृत्तम्, तेन+इह अपि भवति, पितुरागतं पित्र्यम् । ऋत इति तपरकरणं किम् ? चेकीर्यते । निजेगिल्यते ॥ रिङ् शयग्लिङ्क्षु
ṛkārāntasya aṅgasya akṛdyakāre asārvadhātuke yakāre cvau ca parato rīṅ ity ayam ādeśo bhavati / mātrīyati / mātrīyate / pitrīyati / pitrīyate / cekrīyate / mātrībhūtaḥ / kṅiti ity etan nivṛttam, tena+iha api bhavati, piturāgataṃ pitryam / ṛta iti taparakaraṇaṃ kim ? cekīryate / nijegilyate // riṅ śayagliṅkṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.