ऋकारान्तस्य अङ्गस्य शयक् इत्य् एतयोः लिङि च यकारादौ असार्वधातुके परतो रङ् इत्य् अयम् आदेशो भवति । श - आद्रियते । आध्रियते । यक् - क्रियते । ह्रियते । लिङ् - क्रियात् । ह्रियात् । रिङ्वचनं दीर्घनिवृत्त्यर्थम् । असार्वधातुके इत्य् एव, बिभृयात् । यि इत्य् एव, कृषीष्ट । हृषीष्ट ॥ गुणो ऽर्ति-संयोगाद् योः
ṛkārāntasya aṅgasya śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke parato raṅ ity ayam ādeśo bhavati / śa - ādriyate / ādhriyate / yak - kriyate / hriyate / liṅ - kriyāt / hriyāt / riṅvacanaṃ dīrghanivṛttyartham / asārvadhātuke ity eva, bibhṛyāt / yi ity eva, kṛṣīṣṭa / hṛṣīṣṭa // guṇo 'rti-saṃyogād yoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.