अग्लोपिनाम् अङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति । अग्लोपिनां तावत् - मालामाख्यत् अममालत् । मातरमाख्यत् अममातरत् । राजानम् अतिक्रान्तवान् अत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावाद् अपि सिद्धम्, हलचोर् आदेशे तु न सिध्यति इति तदर्थम् एतद् वचनम् । शासेः - अशशासत् । ऋदिताम् - बाधृ - अबवाधत् । याचृ - अययाचत् । ढौकृ - अडुढौकत् ॥ भ्राज-भास-भाष-दीप-जीव-मील-पीडाम् अन्यतरस्याम्
aglopinām aṅgānāṃ śāseḥ ṛditāṃ ca ṇau caṅi upadhāyā hrasvo na bhavati / aglopināṃ tāvat - mālāmākhyat amamālat / mātaramākhyat amamātarat / rājānam atikrāntavān atyararājat / lomānyanumṛṣṭavān anvalulomat / ageva yatra kevalo lupyate tatra sthānivadbhāvād api siddham, halacor ādeśe tu na sidhyati iti tadartham etad vacanam / śāseḥ - aśaśāsat / ṛditām - bādhṛ - abavādhat / yācṛ - ayayācat / ḍhaukṛ - aḍuḍhaukat // bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.