अनुनासिकान्तस्य अङ्गस्य यो ऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः । तन्तन्यते । तन्तनीति । जङ्गम्यते । जङ्गमीति । यंयम्यते । यंयमीति । रंरम्यते । रंरमीति । नुक् इत्य् एतद् अनुस्वारोपलक्षणार्थं द्रष्टव्यम् । स्थानिना हि आदेशो लक्ष्यते । तेन यंयम्यते इत्य् एवम् आदौ अझल्परत्वे ऽपि अनुस्वारो भवति । पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्य (*८,४।५९) इति परसवर्नविकल्पो यथा स्यात् इति । अतः इति किम् ? तेतिम्यते । तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते । अनुनासिकान्तस्य इति किम् ? पापच्यते ॥ जप-जभ-दह-दश-भञ्ज-पशां च
anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ / tantanyate / tantanīti / jaṅgamyate / jaṅgamīti / yaṃyamyate / yaṃyamīti / raṃramyate / raṃramīti / nuk ity etad anusvāropalakṣaṇārthaṃ draṣṭavyam / sthāninā hi ādeśo lakṣyate / tena yaṃyamyate ity evam ādau ajhalparatve 'pi anusvāro bhavati / padāntavacceti vaktavyam / vā padāntasya (*8,4.59) iti parasavarnavikalpo yathā syāt iti / ataḥ iti kim ? tetimyate / taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivṛttyartham, bābhamyate / anunāsikāntasya iti kim ? pāpacyate // japa-jabha-daha-daśa-bhañja-paśāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.