जप जभ दह दश भञ्ज पश इत्य् एतेषाम् अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः । जञ्जप्यते जञ्जपीति । जभ - जञ्जभ्यते । जञ्जभीति । दह - दन्दह्यते । दन्दहीति । दश - दन्दश्यते । दन्दशीति दश इति दंशिः अयं नकारलोपार्थम् एव निर्दिष्टः । तेन यङ्लुक्य् अपि नकारलोपो भवति । भञ्ज - बम्भज्यते । बम्भञ्जीति । पश इति सौत्रो धातुः - पम्पश्यते । पम्पशीति ॥ चर-फलोश् च
japa jabha daha daśa bhañja paśa ity eteṣām abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ / jañjapyate jañjapīti / jabha - jañjabhyate / jañjabhīti / daha - dandahyate / dandahīti / daśa - dandaśyate / dandaśīti daśa iti daṃśiḥ ayaṃ nakāralopārtham eva nirdiṣṭaḥ / tena yaṅluky api nakāralopo bhavati / bhañja - bambhajyate / bambhañjīti / paśa iti sautro dhātuḥ - pampaśyate / pampaśīti // cara-phaloś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.