अचीकरत् । अपीपचत् । ओः पुयण्ज्यपरे (*७,४।८०) इत्य् उक्तम्, चङ्परे ऽपि तथा । अपीपवत् । अलीलवत् । अजीजवत् । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (*७,४।८१) इत्य् उक्तम्, चङ्परे ऽपि तथा । असिस्रवत्, असुस्रवत् । अशिश्रवत्, अशुश्रवत् । अदिद्रवत्, अदुद्रवत् । अपिप्रवत्, अपुप्रवत् । अपिप्लवत्, अपुप्लवत् । अचिच्यवत्, अचुच्यवत् । लुघुनि इति किम् ? अततक्षत् । अररक्षत् । जागरयतेः अजजागरत् । अत्र केचिद् गशब्दम् लभुमाश्रित्य सन्बद्भावम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यम् अभ्यासेन न अस्ति इति व्यवधाने ऽपि वचनप्रामाण्याद् भवितव्यम्, तद् असत् । येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यात् इत्य् एकेन व्यवधानम् आश्रीयते, न पुनर् अनेकेन । यद्य् एवम्, कथम् अचिक्षणत् इति ? आचार्यप्रवृत्तिर् ज्ञापयति भवत्य् एवं जातीयकानाम् इत्त्वम् इति । यद् अयं तद् बाधनार्थं सम्रत्यादीनाम् अत्वम् विदधाति । चङ्परे इति किम् ? अहं पपच । परग्रहणं किम् ? चङि एव केवले मा भूत्, अचकमत । अनग्लोपे इति किम् ? अचकथत् । दृषदमाख्यातवान् अददृषत् । वादितवन्तं प्रयोजितवान् अवीवदत् इत्य् अत्र यो ऽसौ णौ णेर्लोपो नासावग्लोप इत्य् आश्रीयते । किं कारणम् ? चङ्परे इति णिजातेर् निमित्तत्वेन आक्षेपात्, ततो ऽन्यस्य अको लोपः परिगृह्यते । मीमादीनाम् अत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्य् उक्तम् । किं च सन्वत् इति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि । तदभावात् अमीमपत् इत्य् आदौ अभ्यासलोपो न भविष्यति ॥ दीर्घो लघोः
acīkarat / apīpacat / oḥ puyaṇjyapare (*7,4.80) ity uktam, caṅpare 'pi tathā / apīpavat / alīlavat / ajījavat / sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ vā (*7,4.81) ity uktam, caṅpare 'pi tathā / asisravat, asusravat / aśiśravat, aśuśravat / adidravat, adudravat / apipravat, apupravat / apiplavat, apuplavat / acicyavat, acucyavat / lughuni iti kim ? atatakṣat / ararakṣat / jāgarayateḥ ajajāgarat / atra kecid gaśabdam labhumāśritya sanbadbhāvam icchanti, sarvatraiva laghorānantaryam abhyāsena na asti iti vyavadhāne 'pi vacanaprāmāṇyād bhavitavyam, tad asat / yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena / yady evam, katham acikṣaṇat iti ? ācāryapravṛttir jñāpayati bhavaty evaṃ jātīyakānām ittvam iti / yad ayaṃ tad bādhanārthaṃ samratyādīnām atvam vidadhāti / caṅpare iti kim ? ahaṃ papaca / paragrahaṇaṃ kim ? caṅi eva kevale mā bhūt, acakamata / anaglope iti kim ? acakathat / dṛṣadamākhyātavān adadṛṣat / vāditavantaṃ prayojitavān avīvadat ity atra yo 'sau ṇau ṇerlopo nāsāvaglopa ity āśrīyate / kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena ākṣepāt, tato 'nyasya ako lopaḥ parigṛhyate / mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo na bhavati ity uktam / kiṃ ca sanvat iti sanāśrayaṃ kāryamatidiśyate, na ca lopaḥ sanam eva apekṣate, kiṃ tarhi, isbhāvādyapi / tadabhāvāt amīmapat ity ādau abhyāsalopo na bhaviṣyati // dīrgho laghoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.