पश्यार्थाः दर्शनार्थाः । दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम् । तैः पश्यार्थेर् अनालोचने वर्तमानैर् युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति । ग्रामस्तव स्वं समीक्ष्यागतः । ग्रामो मम स्वं समीक्ष्यागतः । ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः । ग्रामो मह्यं दीयमानं समीक्ष्यागतः । ग्रामस्त्वां समीक्ष्यागतः । ग्रामो मां समीक्ष्यागतः । अनालोचने इति किम् ? ग्रामस्त्वा पश्यति । ग्रामो मा पश्यति । पश्यार्थैर् युक्तयुक्ते ऽपि च प्रतिषेध इष्यते । तथा च+एव+उदाहृतम् ॥ सपूर्वायाः प्रथमाया विभाषा
paśyārthāḥ darśanārthāḥ / darśanaṃ jñānam, ālocanam, cakṣurvijñānam / taiḥ paśyārther anālocane vartamānair yukte yuṣmadasmadoḥ vānnāvādayo na bhavanti / grāmastava svaṃ samīkṣyāgataḥ / grāmo mama svaṃ samīkṣyāgataḥ / grāmastubhyaṃ dīyamānaṃ samīkṣyāgataḥ / grāmo mahyaṃ dīyamānaṃ samīkṣyāgataḥ / grāmastvāṃ samīkṣyāgataḥ / grāmo māṃ samīkṣyāgataḥ / anālocane iti kim ? grāmastvā paśyati / grāmo mā paśyati / paśyārthair yuktayukte 'pi ca pratiṣedha iṣyate / tathā ca+eva+udāhṛtam // sapūrvāyāḥ prathamāyā vibhāṣā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.