युष्मदस्मदोर् विभाषा अनन्वादेश् इति वक्तव्यम् । इह मा भूत्, अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम् । अपर आह - सर्व एव वान्नावादयो ऽनन्वादेशे विभाषा वक्तव्याः । कम्बलस्ते स्वम्, कम्बलस्तव स्वम् । कम्बलो मे स्वम्, कम्बलो मम स्वम् । अनन्वादेशे इति किम् ? अथो कम्बलस्ते स्वम् । अथो कम्बलो मे स्वम् । न तर्हि इदानीमिदं वक्तव्यम् सपूर्वायाः प्रथमाया विभाषा इति ? वक्तव्यं च । किं प्रयोजनम् ? अन्वादेशार्थम् । अनवादेशे हि विभाषा यथा स्यात् । अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्ते स्वम् । अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामेकम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम् ॥ तिङो गोत्रादीनि कुत्सन-आभीक्ष्ण्ययोः
yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam / iha mā bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam / apara āha - sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ / kambalaste svam, kambalastava svam / kambalo me svam, kambalo mama svam / ananvādeśe iti kim ? atho kambalaste svam / atho kambalo me svam / na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti ? vaktavyaṃ ca / kiṃ prayojanam ? anvādeśārtham / anavādeśe hi vibhāṣā yathā syāt / atho grāme kambalaste svam, atho grāme kambalaste svam / atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo mama svam // tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.