तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति । पचति गोत्रम् । जल्पति गोत्रम् । आभीक्ष्ण्ये - पचति पचति गोत्रम् । जल्पति जल्पति गोत्रम् । ब्रुवः - पचति ब्रुवम् । जल्पति ब्रुवम् । पचति पचति ब्रुवम् । जल्पति जल्पति ब्रुवम् । ब्रुवः इति ब्रुवः कन्निपातनाद् वच्यादेशाभावश्च । गोत्र । ब्रुव । प्रवचन । प्रहसन । प्रकथन । प्रत्ययन । प्रचक्षण । प्राय । विचक्षण । अवचक्षण । स्वाध्याय । भूयिष्थ । वा नाम । नाम इत्य् एतद् वा निहन्यते । पक्षे आद्युदात्तम् एव भवति । पचति नाम । पठति नाम । तिङः इति किम् ? कुत्सितं गोत्रम् । गोत्रादीनि इति किम् ? पचति पापम् । कुत्सनाभीक्ष्ण्ययोः इति किम् ? खनति गोत्रं समेत्य कूपम् । कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम् । तेन अन्यत्र अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोर् एव कार्यं भवति ॥ तिङ्ङ् अतिङः
tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni bhavanti / pacati gotram / jalpati gotram / ābhīkṣṇye - pacati pacati gotram / jalpati jalpati gotram / bruvaḥ - pacati bruvam / jalpati bruvam / pacati pacati bruvam / jalpati jalpati bruvam / bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca / gotra / bruva / pravacana / prahasana / prakathana / pratyayana / pracakṣaṇa / prāya / vicakṣaṇa / avacakṣaṇa / svādhyāya / bhūyiṣtha / vā nāma / nāma ity etad vā nihanyate / pakṣe ādyudāttam eva bhavati / pacati nāma / paṭhati nāma / tiṅaḥ iti kim ? kutsitaṃ gotram / gotrādīni iti kim ? pacati pāpam / kutsanābhīkṣṇyayoḥ iti kim ? khanati gotraṃ sametya kūpam / kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam / tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayor eva kāryaṃ bhavati // tiṅṅ atiṅaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.