किमो वृत्तं किंवृत्तम् । किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ । तत् किंवृत्तं चिदुत्तरम् अविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तम् भवति । कश्चिद् भुङ्क्ते । कश्चिद् भोजयति । कश्चिद् अधीते । केनचित् करोति । कस्मैचिद् ददाति । कतरश्चित् करोति । कतमश्चिद् भुङ्क्ते । चिदुत्तरम् इति किम् ? को भुङ्क्ते । अपूर्वम् इत्य् एव, देवदत्तः किञ्चित् पठति ॥ आहो उताहो च अनन्तरम्
kimo vṛttaṃ kiṃvṛttam / kiṃvṛttagrahaṇena tadvibhaktyantaṃ pratīyāt, ḍataraḍatamau ca pratyayau / tat kiṃvṛttaṃ ciduttaram avidyamānapūrvaṃ yat tena yuktaṃ tiṅantaṃ nānudāttam bhavati / kaścid bhuṅkte / kaścid bhojayati / kaścid adhīte / kenacit karoti / kasmaicid dadāti / kataraścit karoti / katamaścid bhuṅkte / ciduttaram iti kim ? ko bhuṅkte / apūrvam ity eva, devadattaḥ kiñcit paṭhati // āho utāho ca anantaram
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.