निघातप्रतिषेधो ऽनुवर्तते, अपूर्वम् इति च । आहो उताहो इत्य् एताभ्याम् अपूर्वाभ्यां युक्तम् अनन्तरं तिङन्तं नानुदात्तं भवति । आहो भुङ्क्ते । उताहो भुग्क्ते । आहो पठति । उताहो पठन्ति । अनन्तरम् इति किम् ? शेषे विभाषां वक्ष्यति । अपूर्वम् इत्य् एव, देवदत्त आहो भुङ्क्ते । देवदत्त उताहो भुङ्क्ते ॥ शेषे विभाषा
nighātapratiṣedho 'nuvartate, apūrvam iti ca / āho utāho ity etābhyām apūrvābhyāṃ yuktam anantaraṃ tiṅantaṃ nānudāttaṃ bhavati / āho bhuṅkte / utāho bhugkte / āho paṭhati / utāho paṭhanti / anantaram iti kim ? śeṣe vibhāṣāṃ vakṣyati / apūrvam ity eva, devadatta āho bhuṅkte / devadatta utāho bhuṅkte // śeṣe vibhāṣā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.