लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत् कारकं सर्वान्यद् भवति । लोडन्तयोर् एकं कारकं यदि भवति इत्य् अर्थः । आगच्छ देवदत्त, ग्रामं पश्य । आगच्छ विष्णुमित्र, ग्रामं शाधि । आगम्यतां देवदत्तेन, ग्रामो दृश्यतां यज्ञदत्तेन । गत्यर्थानाम् इत्य् एव, पच देवदत्तौदनम्, भुङ्क्ष्व एनम् । लोटा इत्य् एव, आगच्छेः देवदत्त ग्रामम्, पश्य एनम् । न चेत् कारकं सर्वान्यत् इत्य् एव, आगच्छ देवदत्त ग्रामम्, पश्यतु एनम् यज्ञदत्तः । सर्वग्रहणानुवृत्तेस्तु इह भवत्य् एव, आगच्छ देवदत्त ग्रामम् त्वं चाहं च पश्याव । पृथग्योगकरणम् उत्तरार्थम् ॥ विभाषितं सोपसर्गम् अनुत्तमम्
loḍantaṃ tiṅantaṃ gatyarthaloṭā yuktaṃ nānudāttaṃ bhavati, na cet kārakaṃ sarvānyad bhavati / loḍantayor ekaṃ kārakaṃ yadi bhavati ity arthaḥ / āgaccha devadatta, grāmaṃ paśya / āgaccha viṣṇumitra, grāmaṃ śādhi / āgamyatāṃ devadattena, grāmo dṛśyatāṃ yajñadattena / gatyarthānām ity eva, paca devadattaudanam, bhuṅkṣva enam / loṭā ity eva, āgaccheḥ devadatta grāmam, paśya enam / na cet kārakaṃ sarvānyat ity eva, āgaccha devadatta grāmam, paśyatu enam yajñadattaḥ / sarvagrahaṇānuvṛttestu iha bhavaty eva, āgaccha devadatta grāmam tvaṃ cāhaṃ ca paśyāva / pṛthagyogakaraṇam uttarārtham // vibhāṣitaṃ sopasargam anuttamam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.