एकार्थः पदसमूहो वाक्यम् । वाक्यादेर् आमन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद् वाक्यं भवति । तत्र परगुणानामसहनम् असूया । पूजा सम्मतिः । कोपः क्रोधः । निन्दनं कुत्सनम् । अपकारशब्दैर्भयोत्पादनं भर्त्सनम् । एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः । असूयायाम् तावत् - माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, रिक्तं ते आभिरूप्यम् । सम्मातौ - माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, शोभनः खल्वसि । कोपे - माणवक ३ माणवक, अविनीतक ३ अविनीतक, इदानीं ज्ञास्यसि जाल्म । कुत्सने - शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके, रिक्ता ते शक्तिः । भर्त्सने - चौर चौर ३, वृषल वृषल ३, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम् । असूयादिषु स्वरितम् आम्रेडिते ऽसूया-संमति-कोप-कुत्सनेषु (*८,२।१०३) इति पूर्वपदस्य प्लुतः । भर्त्सने तु आम्रेडितं भर्त्सने (*८,२।९५) इत्य् आम्रेडितस्य+एव प्लुतः । वाक्यादेः इति किम् ? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक । आमन्त्रितस्य इति किम् ? उदारो देवदत्तः । असूयादिषु इति किम् ? देवदत्त गामभ्याज शुक्लाम् ॥ एकं बहुव्रीहिवत्
ekārthaḥ padasamūho vākyam / vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati / tatra paraguṇānāmasahanam asūyā / pūjā sammatiḥ / kopaḥ krodhaḥ / nindanaṃ kutsanam / apakāraśabdairbhayotpādanaṃ bhartsanam / ete ca prayoktṛdharmāḥ, nābhidheyadharmāḥ / asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, riktaṃ te ābhirūpyam / sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, śobhanaḥ khalvasi / kope - māṇavaka 3 māṇavaka, avinītaka 3 avinītaka, idānīṃ jñāsyasi jālma / kutsane - śaktike 3 śaktike, yaṣṭike 3 yaṣṭike, riktā te śaktiḥ / bhartsane - caura caura 3, vṛṣala vṛṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi tvām / asūyādiṣu svaritam āmreḍite 'sūyā-saṃmati-kopa-kutsaneṣu (*8,2.103) iti pūrvapadasya plutaḥ / bhartsane tu āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+eva plutaḥ / vākyādeḥ iti kim ? antasya madhyamasya ca mā bhūt, śobhanaḥ khalvasi māṇavaka / āmantritasya iti kim ? udāro devadattaḥ / asūyādiṣu iti kim ? devadatta gāmabhyāja śuklām // ekaṃ bahuvrīhivat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.