ह्रस्वाद् उत्तरस्य सकारस्य मूर्धन्यादेएशो भवति तादौ तद्धिते परतः । तरप् तमप् तय त्व तल् त्यप्, एतानि प्रयोजयन्ति । तरप् - सर्पिष्टरम् । यजुष्तरम् । तमप् - सर्पिष्टमम् । यजुष्टमम् । तय - चतुष्टये ब्राह्मणानां निकेताः । त्व - सर्पिष्ट्वम् यजुष्ट्वम् । तल् - सर्पिष्टा । यजुष्टा । तस् - सर्पिष्टः । यजुष्टः । त्यप् - आविष्ट्यो वर्धते । ह्रस्वात् इति किम् ? गीस्तरा । धूस्तरा । तादौ इति किम् ? सर्पिस्साद् भवति । प्रत्ययसकारस्य सात् पदाद्योः (*८,३।१११) इति सत्य् अपि प्रतिषेधे प्रकृतिसकारस्य स्यात् । तद्धिते इति किम् ? सर्पिस्तरति । तिङन्तस्य प्रतिषेधो वक्तव्यः । भिन्द्युस्तराम् । छिन्द्युस्तराम् ॥ निसस् तपताव् अनसेवने
hrasvād uttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ / tarap tamap taya tva tal tyap, etāni prayojayanti / tarap - sarpiṣṭaram / yajuṣtaram / tamap - sarpiṣṭamam / yajuṣṭamam / taya - catuṣṭaye brāhmaṇānāṃ niketāḥ / tva - sarpiṣṭvam yajuṣṭvam / tal - sarpiṣṭā / yajuṣṭā / tas - sarpiṣṭaḥ / yajuṣṭaḥ / tyap - āviṣṭyo vardhate / hrasvāt iti kim ? gīstarā / dhūstarā / tādau iti kim ? sarpissād bhavati / pratyayasakārasya sāt padādyoḥ (*8,3.111) iti saty api pratiṣedhe prakṛtisakārasya syāt / taddhite iti kim ? sarpistarati / tiṅantasya pratiṣedho vaktavyaḥ / bhindyustarām / chindyustarām // nisas tapatāv anasevane
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.