सात् इत्य् एतस्य पदादेश् च मूर्धन्यादेशो न भवति । विभाषा साति कार्त्स्न्ये (*५,४।५२) । प्रत्ययसकारत्वात् प्राप्तिः, पदादेश् च आदेशसकारत्वात् । सात् - अग्निसात् । दधिसात् । मधुसात् । पदादेः - दधि सिञ्चति । मधु सिञ्चति ॥ सिचो यङि
sāt ity etasya padādeś ca mūrdhanyādeśo na bhavati / vibhāṣā sāti kārtsnye (*5,4.52) / pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt / sāt - agnisāt / dadhisāt / madhusāt / padādeḥ - dadhi siñcati / madhu siñcati // sico yaṅi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.