नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः । पयांसि । यशांसि । सर्पींषि । मकारस्य - आक्रंस्यते । आचिक्रंस्यते । अधिजिगांसते । अपदान्तस्य इति किम् ? राजत् भुङ्क्ष्व । झलि इति किम् ? रम्यते । गम्यते ॥ मो राजि समः क्वौ
nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ / payāṃsi / yaśāṃsi / sarpīṃṣi / makārasya - ākraṃsyate / ācikraṃsyate / adhijigāṃsate / apadāntasya iti kim ? rājat bhuṅkṣva / jhali iti kim ? ramyate / gamyate // mo rāji samaḥ kvau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.