ह्रस्वात् परः यो ङम् तदन्तात् पदात् उत्तरस्य अचः ङमुडागमो भवति नित्यम् । ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति । ङकारान्तात् ङुट् - प्रत्यङ्ङास्ते । णकारान्तात् णुट् - वण्णास्ते । वण्णवोचत् । नकारान्तात् नुट् - कुर्वन्नास्ते । कुर्वन्नवोचत् । कृषन्नास्ते । कृषन्नवोचत् । ङमः इति किम् ? त्वमास्से । ह्रस्वात् इति किम् ? प्राङास्ते । भवानास्ते । अचि इति किम् ? प्रत्यङ् करोति । इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधाद् उत्तरपदस्य पदत्वं न अस्ति इति ङमुट् न भवति । अथ वा, उञि च पदे (*८,३।२१) इत्य् अतः सप्तम्यन्तं पदे इत्य् अनुवर्वते । तेन अजादौ पदे ङमुट् भवति ॥ मय उञो वो वा
hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya acaḥ ṅamuḍāgamo bhavati nityam / ṅaṇanebhyo yathāsaṅkhyaṃ ṅaṇanā bhavanti / ṅakārāntāt ṅuṭ - pratyaṅṅāste / ṇakārāntāt ṇuṭ - vaṇṇāste / vaṇṇavocat / nakārāntāt nuṭ - kurvannāste / kurvannavocat / kṛṣannāste / kṛṣannavocat / ṅamaḥ iti kim ? tvamāsse / hrasvāt iti kim ? prāṅāste / bhavānāste / aci iti kim ? pratyaṅ karoti / iha paramadaṇḍinau, paramadaṇdinā iti uttarapadatve cāpadādividhau iti pratyayalakṣaṇapratiṣedhād uttarapadasya padatvaṃ na asti iti ṅamuṭ na bhavati / atha vā, uñi ca pade (*8,3.21) ity ataḥ saptamyantaṃ pade ity anuvarvate / tena ajādau pade ṅamuṭ bhavati // maya uño vo vā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.