सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु । याप्ये पाशप् (*५,३।५७) - पयस्पाशम् । ईषदसमाप्तौ कल्पप् - पयस्कल्पम् । यशस्कल्पम् । प्रागिवात् कः (*५,३।७०) - पयस्कम् । यशस्कम् । काम्यच् - पयस्काम्यति । यशस्काम्यति । अपदादौ इति किम् ? पयः कामयते । पयः पिबति । सो ऽपदादावित्यनव्ययस्य+इति वक्तव्यम् । इह मा भूत्, प्रातः कल्पम्, पुनः कल्पम् इति । रोः काम्ये नियमार्थम् । रोर् एव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम् । पयस्काम्यति । यशस्काम्यति । इह म भूत्, गीः काम्यति । धूः काम्यति । उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम् । किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात् ॥ इणः षः
sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu / yāpye pāśap (*5,3.57) - payaspāśam / īṣadasamāptau kalpap - payaskalpam / yaśaskalpam / prāgivāt kaḥ (*5,3.70) - payaskam / yaśaskam / kāmyac - payaskāmyati / yaśaskāmyati / apadādau iti kim ? payaḥ kāmayate / payaḥ pibati / so 'padādāvityanavyayasya+iti vaktavyam / iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti / roḥ kāmye niyamārtham / ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam / payaskāmyati / yaśaskāmyati / iha ma bhūt, gīḥ kāmyati / dhūḥ kāmyati / upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam / kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā syāt // iṇaḥ ṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.