अपदादौ इति वर्तते । इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोर् अपदाद्योः परतः पाशकल्पककाम्येषु । पाश - सर्पिष्पाशम् । यजुष्पाशम् । कल्प - सर्पिष्कल्पम् । यजुष्कल्पम् । क - सर्पिष्कम् । यजुष्कम् । काम्य - सर्पिष्काम्यति । यजुष्काम्यति । अपदादौ इत्य् एव, अग्निः करोति । वायुः करोति । अग्निः पचति । वायुः पचति । कुप्वोः इत्य् एव, सर्पिस्ते । यजुस्ते । इत उत्तरं सः इति, इणः सः इति च वर्तते । तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति ॥ नमस्-पुरसोर् गत्योः
apadādau iti vartate / iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvor apadādyoḥ parataḥ pāśakalpakakāmyeṣu / pāśa - sarpiṣpāśam / yajuṣpāśam / kalpa - sarpiṣkalpam / yajuṣkalpam / ka - sarpiṣkam / yajuṣkam / kāmya - sarpiṣkāmyati / yajuṣkāmyati / apadādau ity eva, agniḥ karoti / vāyuḥ karoti / agniḥ pacati / vāyuḥ pacati / kupvoḥ ity eva, sarpiste / yajuste / ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate / tatra iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati // namas-purasor gatyoḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.