अकाराद् उत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्य् एतेषु परतः । कृ - अयस्कारः । पयस्कारः । कमि - अयस्कामः । पयस्कामः । कंस - अयस्कंसः । पयस्कंसः । कुम्भ - अयस्कुम्भः । पयस्कुम्भः । अयस्कुम्भी, पयस्कुम्भी इत्य् अत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति । पात्र - अयस्पात्रम् । पयस्पात्रम् । अयपात्री पयस्पात्री । कुशा - अयस्कुशा । पयकुशा । कर्णी - अयस्कर्णी । अपय्स्कर्णी । शुनस्कर्णः इत्य् अयं तु कस्कादिषु द्रष्टव्यः । अतः इति किम् ? गोःकारः । धूःकारः । तपरकरणं किम् ? भाःकरणम् । भास्करः इत्य् अयं तु कस्कादिषु द्रष्तव्यः । अनव्ययस्य इति किम् ? श्वःकारः । पुनःकारः । समासे इत्य् एव, यशः करोति । पयः करोति । यशः कामयते । अनुत्तरपदस्थस्य इत्य् एव, परमपयःकारः । परमपयःकामः ॥ अधः-शिरसी पदे
akārād uttarasya anavyayavisarjanīyasya samāse anuttarapadasthasya nityaṃ sakārādeśo bhavati kṛ kami kaṃsa kumbha pātra kuśā karṇī ity eteṣu parataḥ / kṛ - ayaskāraḥ / payaskāraḥ / kami - ayaskāmaḥ / payaskāmaḥ / kaṃsa - ayaskaṃsaḥ / payaskaṃsaḥ / kumbha - ayaskumbhaḥ / payaskumbhaḥ / ayaskumbhī, payaskumbhī ity atra api bhavati, prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti / pātra - ayaspātram / payaspātram / ayapātrī payaspātrī / kuśā - ayaskuśā / payakuśā / karṇī - ayaskarṇī / apayskarṇī / śunaskarṇaḥ ity ayaṃ tu kaskādiṣu draṣṭavyaḥ / ataḥ iti kim ? goḥkāraḥ / dhūḥkāraḥ / taparakaraṇaṃ kim ? bhāḥkaraṇam / bhāskaraḥ ity ayaṃ tu kaskādiṣu draṣtavyaḥ / anavyayasya iti kim ? śvaḥkāraḥ / punaḥkāraḥ / samāse ity eva, yaśaḥ karoti / payaḥ karoti / yaśaḥ kāmayate / anuttarapadasthasya ity eva, paramapayaḥkāraḥ / paramapayaḥkāmaḥ // adhaḥ-śirasī pade
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.