पदाधिकारो निवृत्तः । अपदान्तस्य इति, मूर्धन्यः इति चैतद् अधिकृतम् वेदितव्यम् आपादपरिसमाप्तेः । वक्ष्यति - आदेशप्रत्यययोः (*८,३।५९) । सिषेव । षुष्वाप । अग्निषु । वायुषु । अपदान्तस्य इति किम् ? अग्निस्तत्र । वायुस्तत्र । षः इत्य् एवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम् । अकृढ्वम् । चकृढ्वे ॥ सहेः साडः सः
padādhikāro nivṛttaḥ / apadāntasya iti, mūrdhanyaḥ iti caitad adhikṛtam veditavyam āpādaparisamāpteḥ / vakṣyati - ādeśapratyayayoḥ (*8,3.59) / siṣeva / ṣuṣVāpa / agniṣu / vāyuṣu / apadāntasya iti kim ? agnistatra / vāyustatra / ṣaḥ ity evaṃ siddhe mūrdhanyagrahaṇaṃ ḍhakārārtham / akṛḍhvam / cakṛḍhve // saheḥ sāḍaḥ saḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.