इण्कोः इत्य् एतद् अधिकृतं वेदितव्यम् । इत उत्तरं यद् वक्ष्यामः, इणः कवर्गाच् च इत्य् एवं तद् वेदितव्यम् । वक्ष्यति - आदेशप्रत्यययोः (*८,३।५९) । सिषेव । सुष्वाप । अग्निषु । वायुषु । कर्तृषु । हर्तृषु । गीर्षु । धूर्षु । वाक्षु । त्वक्षु । इण्कोः इति किम् ? दास्यति । असौ ॥ नम्-विसर्जनीय-शर्व्यवाये ऽपि
iṇkoḥ ity etad adhikṛtaṃ veditavyam / ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ kavargāc ca ity evaṃ tad veditavyam / vakṣyati - ādeśapratyayayoḥ (*8,3.59) / siṣeva / suṣvāpa / agniṣu / vāyuṣu / kartṛṣu / hartṛṣu / gīrṣu / dhūrṣu / vākṣu / tvakṣu / iṇkoḥ iti kim ? dāsyati / asau // nam-visarjanīya-śarvyavāye 'pi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.