शासि वसि घसि इत्य् एतेषां च इण्कोः उत्तरस्य यकारस्य मूर्धन्यो भवति । अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् । शिष्टः । शिष्टवान् । वसि - उषितः । उषितवान् । उषित्वा । घसि - जक्षतुः । जक्षुः । घसिभसोर्हलि च (*६,४।१००) इति उपधालोपः । अक्षन् पितरो ऽमीमदन्त पितरः । अनादेशार्थं वचनम् । घसिर् यद्य् अप्य् आदेशः, सकारस्त्वादेशो न भवति । इण्दोः इत्य् एव, शास्ति । वसति । जघास ॥ स्तौति-ण्योर् एव षण्य् अभ्यासात्
śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati / anvaśiṣat, anvaśiṣatām, anvaśiṣan / śiṣṭaḥ / śiṣṭavān / vasi - uṣitaḥ / uṣitavān / uṣitvā / ghasi - jakṣatuḥ / jakṣuḥ / ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ / akṣan pitaro 'mīmadanta pitaraḥ / anādeśārthaṃ vacanam / ghasir yady apy ādeśaḥ, sakārastvādeśo na bhavati / iṇdoḥ ity eva, śāsti / vasati / jaghāsa // stauti-ṇyor eva ṣaṇy abhyāsāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.