विषितः । सय - परिषयः । निषयः । विषयः । सिव् - परिषीव्यति । निषीव्यति । विषीव्यति । पर्यषीव्यत् । न्यषीव्यत् । व्यषीव्यत् । पर्यसीव्यत् । न्यसीव्यत् । व्यसीव्यत् । सह - परिषहते । निषहते । विषहते । पर्यषहत । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । सुट् - परिष्करोति । पर्यष्करोत् । पर्यस्करोत् । स्तु - परिष्टौति । निष्टौति । विष्टौति । पर्यष्टौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत् । व्यस्तौत् । स्वञ्ज - दंशसञ्जस्वञ्जाम् इति नलोपः । परिष्वजते । निष्वजते । विष्वजते । पर्यष्वजत, पर्यस्वजत । पूर्वेण+एव सिद्धे स्तुस्वञ्जिग्रहणम् उत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात् ॥ सिवादीनां वा अड्व्यवाये ऽपि
viṣitaḥ / saya - pariṣayaḥ / niṣayaḥ / viṣayaḥ / siv - pariṣīvyati / niṣīvyati / viṣīvyati / paryaṣīvyat / nyaṣīvyat / vyaṣīvyat / paryasīvyat / nyasīvyat / vyasīvyat / saha - pariṣahate / niṣahate / viṣahate / paryaṣahata / nyaṣahata / vyaṣahata / paryasahata / nyasahata / vyasahata / suṭ - pariṣkaroti / paryaṣkarot / paryaskarot / stu - pariṣṭauti / niṣṭauti / viṣṭauti / paryaṣṭaut / nyaṣṭaut / vyaṣṭaut / paryastaut / nyastaut / vyastaut / svañja - daṃśasañjasvañjām iti nalopaḥ / pariṣvajate / niṣvajate / viṣvajate / paryaṣvajata, paryasvajata / pūrveṇa+eva siddhe stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt // sivādīnāṃ vā aḍvyavāye 'pi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.