समः इति किम् ? उपस्कर्ता । सुटि इति किम् ? संकृतिः । कश्चिदाह - संपुंकानां सो वक्तव्यः । रुविधौ ह्य् अनिष्टप्रसङ्गः, संस्स्कर्ता, पुंस्स्कामा, कांस्स्कान् इति ॥ पुमः खय्यम्परे (*८,३।६) । पुम् इत्य् एतस्य रुः भवति अम्परे खयि परतः । पुंस्कामा, पुंस्कामा । पुंस्पुत्रः, पुंस्पुत्रः । पुंस्फलम् पुंस्फलम् । पुंश्चली, पुंश्चली । पुंस्कामा इत्य् अत्र विसर्जनीयस्य कुप्वोः ःकःपौ च (*८,३।३७) इति प्राप्नोति । तस्माद् अत्र सकार एबादेशो वक्तव्यः । द्विसकारकनिर्देशपक्षे तु पूर्वस्माद् एव सूत्रात् सः इत्य् अनुवर्तते । रुत्वम् तु अनुवर्तमानम् अपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति । खयि इति किम् ? पुंदासः । पुंगवः । अम्परे इति किम् ? पुंक्षीरम् । पुंक्षुरम् । परग्रहणं किम् ? पुमाख्याः । पुमाचारः ॥ नश् छव्य् अप्रशान् (*८,३।७) । अम्परे इति वर्तते । नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुः भवति अम्परे छवि परतः । भवांश्छादयति, भवांश्छादयति । भवांश्चिनोति, भवांश्चिनोति । भवांष्टीकते, भवांष्टीकते । भवांस्तरति, भवांस्तरति । छवि इति किम् ? भवान् करोति । अप्रशान् इति किम् ? प्रशान् छाव्यति । प्रशान् चिनोति । अम्परे इत्य् एव, भवान्त्सरुकः ॥ उभयथ र्क्षु
samaḥ iti kim ? upaskartā / suṭi iti kim ? saṃkṛtiḥ / kaścidāha - saṃpuṃkānāṃ so vaktavyaḥ / ruvidhau hy aniṣṭaprasaṅgaḥ, saṃsskartā, puṃsskāmā, kāṃsskān iti // pumaḥ khayyampare (*8,3.6) / pum ity etasya ruḥ bhavati ampare khayi parataḥ / puṃskāmā, puṃskāmā / puṃsputraḥ, puṃsputraḥ / puṃsphalam puṃsphalam / puṃścalī, puṃścalī / puṃskāmā ity atra visarjanīyasya kupvoḥ ḥkaḥpau ca (*8,3.37) iti prāpnoti / tasmād atra sakāra ebādeśo vaktavyaḥ / dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ ity anuvartate / rutvam tu anuvartamānam api nātrābhisambadhyate, sambandhānuvṛttistasya iti / khayi iti kim ? puṃdāsaḥ / puṃgavaḥ / ampare iti kim ? puṃkṣīram / puṃkṣuram / paragrahaṇaṃ kim ? pumākhyāḥ / pumācāraḥ // naś chavy apraśān (*8,3.7) / ampare iti vartate / nakārāntasya padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ / bhavāṃśchādayati, bhavāṃśchādayati / bhavāṃścinoti, bhavāṃścinoti / bhavāṃṣṭīkate, bhavāṃṣṭīkate / bhavāṃstarati, bhavāṃstarati / chavi iti kim ? bhavān karoti / apraśān iti kim ? praśān chāvyati / praśān cinoti / ampare ity eva, bhavāntsarukaḥ // ubhayatha rkṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.