उपसर्गस्थान् निमित्तात् प्रादुस्शब्दाच् च+उत्तरस्य यकारपरस्य अच्परस्य च अस्तिसकारस्य मूर्धन्यो भवति । अभिषन्ति । निषन्ति । विषन्ति । प्रादुःषन्ति । अभिष्यात् । निष्यात् । विष्यात् । प्राडुःष्यात् । उपसर्गात् इति किम् ? दधि स्यात् । मधु स्यात् । अस्ति इति किम् ? अनुसृतम् । विसृतम् । अथ असत्यपि अस्तिग्रहणे सकारम् एव प्रति उपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्व् एव प्रयोगः इति अन्यत्राप्रसङ्गः ? तथापि एतत् प्रत्युदाहर्तव्यम्, अनुसूते अनुसूः, अनुस्वो ऽपत्यं आनुसेयः । शुभ्रादित्वाड् ढक् (*४,१।१२३), ढे लोपो ऽकद्र्वाः (*६,४।१४७) इति उवर्नलोपः । यच्परः इति किम् ? निस्तः । विस्तः । प्रादुस्तः ॥ सु-वि-निर्-दुर्भ्यः सुपि-सूति-समाः
upasargasthān nimittāt prādusśabdāc ca+uttarasya yakāraparasya acparasya ca astisakārasya mūrdhanyo bhavati / abhiṣanti / niṣanti / viṣanti / prāduḥṣanti / abhiṣyāt / niṣyāt / viṣyāt / prāḍuḥṣyāt / upasargāt iti kim ? dadhi syāt / madhu syāt / asti iti kim ? anusṛtam / visṛtam / atha asatyapi astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kṛbhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ / śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ / yacparaḥ iti kim ? nistaḥ / vistaḥ / prādustaḥ // su-vi-nir-durbhyaḥ supi-sūti-samāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.