रेफषकाराभ्याम् उत्तरस्य् नकारस्य णकारादेशो भवति, समानपदस्थौ चेन् निमित्तनिमित्तिनौ भवतः । आस्तीर्णम् । विशीर्णम् । अवगूर्णम् । षकारात् - कुष्णाति । पुष्णाति । मुष्णाति । षग्रहणम् उत्तरार्थम्, ष्टुत्वेन+एव हि सिद्धम् एतत् । समानपदे इति किम् ? अग्निर्नयति । वायुर्नयति । ऋवर्णाच् च+इति वक्तव्यम् । तिसृणाम् । चतसृणाम् । मातॄणाम् । पितॄणाम् । रश्रुतिसामान्यनिर्देशात् वा सिद्धम् । अवर्नभक्त्या च व्यवधाने ऽपि णत्वं भवति इति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम् । अथवा ऋवर्णाद् अपि णत्वं भवति इति एतद् एव अनेन ज्ञाप्यते ॥ अट्-कु-प्व्-आङ्-नुम्-व्यवाये ऽपि
rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau cen nimittanimittinau bhavataḥ / āstīrṇam / viśīrṇam / avagūrṇam / ṣakārāt - kuṣṇāti / puṣṇāti / muṣṇāti / ṣagrahaṇam uttarārtham, ṣṭutvena+eva hi siddham etat / samānapade iti kim ? agnirnayati / vāyurnayati / ṛvarṇāc ca+iti vaktavyam / tisṛṇām / catasṛṇām / mātṝṇām / pitṝṇām / raśrutisāmānyanirdeśāt vā siddham / avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nṛnamanatṛpnotigrahaṇaṃ jñāpakam / athavā ṛvarṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate // aṭ-ku-pv-āṅ-num-vyavāye 'pi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.