अट् कु पु आङ् नुम् इत्य् एतैर् व्यवाये ऽपि रेफषाकारभ्याम् उत्तरस्य नकारस्य णकारादेशो भवति । अड्व्यवाये तावत् - करणम् । हरणम् किरिणा । गिरिणा । कुरुणा । गुरुणा । कवर्गव्यवाये - अर्केण । मूर्खेण । गर्गेण । अर्घेण । पवर्गव्यवाये - दर्पेण । रेफेण । गर्भेण । चर्मणा । वर्मणा । आङ्व्यवाये - पर्याणद्धम् । निराणद्धम् । अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्य् अस्य प्रतिषेधस्य बाधनार्थम् । नुंव्यवाये - बृंहणम् । बृंहणीयम् । नुंग्रहणम् अनुस्वारोपलक्षणार्थं द्रष्टव्यम् । तेन तृंहणम्, तृंहणीयम् इत्य् अत्र अनुस्वारव्यवाये नुमभावे ऽपि णत्वं भवति । सत्य् अपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयम् इति । व्यवायोपलक्षणार्थत्वाद् अडादीनाम् इह व्यस्तैः समस्तैर् व्यवाये ऽपि णत्वं भवति ॥ पूर्वपदात् सञ्ज्ञायाम् अगः
aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati / aḍvyavāye tāvat - karaṇam / haraṇam kiriṇā / giriṇā / kuruṇā / guruṇā / kavargavyavāye - arkeṇa / mūrkheṇa / gargeṇa / argheṇa / pavargavyavāye - darpeṇa / repheṇa / garbheṇa / carmaṇā / varmaṇā / āṅvyavāye - paryāṇaddham / nirāṇaddham / aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye ity asya pratiṣedhasya bādhanārtham / nuṃvyavāye - bṛṃhaṇam / bṛṃhaṇīyam / nuṃgrahaṇam anusvāropalakṣaṇārthaṃ draṣṭavyam / tena tṛṃhaṇam, tṛṃhaṇīyam ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati / saty api ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam iti / vyavāyopalakṣaṇārthatvād aḍādīnām iha vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati // pūrvapadāt sañjñāyām agaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.