षकारात् पदन्ताद् उत्तरस्य नकारस्य णकारादेशो न भवति । निष्पानम् । दुष्पानम् । सर्पिष्पानम् । यजुष्पानम् । षात् इति किम् ? निर्णयः । पदान्तात् इति किम् ? कुष्णाति । पुष्णाति । पदे अन्तः पदान्तः इति सप्तमीसमासो ऽयम्, तेन इह न भवति, सुसर्पिष्केण । सुयजुष्केण । शेषाद् विभाषा (*५,३।१५४) इति कप् ॥ नशेः षान्तस्य
ṣakārāt padantād uttarasya nakārasya ṇakārādeśo na bhavati / niṣpānam / duṣpānam / sarpiṣpānam / yajuṣpānam / ṣāt iti kim ? nirṇayaḥ / padāntāt iti kim ? kuṣṇāti / puṣṇāti / pade antaḥ padāntaḥ iti saptamīsamāso 'yam, tena iha na bhavati, susarpiṣkeṇa / suyajuṣkeṇa / śeṣād vibhāṣā (*5,3.154) iti kap // naśeḥ ṣāntasya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.