Library·Khandadeva: Bhattadipika·3·3.1

Khandadeva: Bhattadipika 3.1

अथातः शेषलक्षणम्

athātaḥ śeṣalakṣaṇam

Sanskrit only: no published translation is held for this verse.

अंश एव हेतुत्वं, अंशान्तरे तु तु तत्प्रसङ्गान्निरूपणमित्यपि बोध्यम् । अङ्गत्वमेव वाध्यायार्थो ऽङ्गित्वं त्वर्थात् । तदपि च श्रुत्यादिषट्प्रमाणकं, अतिदेशप्रमाणकस्येहाविचार्यत्वात् । तच्चानेकप्रकारकं विचार्यते । अङ्गत्वलक्षणम् शेषपदशक्यत्वावच्छेदकम्, अङ्गाङ्गितयोरवच्छेदकम्, श्रुत्यादीनि च षट् अङ्गत्वे प्रमाणानि, तयोर्विरोधे बलाबलम्, विरोधश्च क्वास्ति क्व नास्तीत्यादि ॥ ३ ॥ १ ॥ इति प्रथमं प्रतिज्ञाधिकरणम् ॥ <ब्२> अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ १ ॥ यो वेदशास्त्रार्णवपारदृश्वा यज्ञादिकर्माचरणे ऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं बालकृष्णं पितरं नमामि ॥ २ ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोभ्यहम् ॥ ३ ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना- संभूतिस्तदपि प्रचारचतुरे नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादराः मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ ४ ॥ यद्यप्यथशब्दस्य आनन्तर्यपूर्वप्रकृतापेक्षित्वमधिकारश्चेति त्रयोर्ऽथाः; तथापि जिज्ञासासूत्रे शब्देन निर्दिष्टस्यैव पूर्वप्रकृतनियमे सत्यध्ययनस्य पूर्वं शब्देन निर्दिष्टत्वाभावेन पूर्वप्रकृतापेक्षार्थत्वानुपपत्तेः जिज्ञासायाश्च प्रमाणपरतन्त्रत्वेन कृतिसाध्यत्वाभावात् शब्दव्यापारद्वारा अधिकारासंभवात् विचारलक्षणायां प्रमाणाभावाच्च तदुभयार्थत्वमनङ्गीकृत्य आनन्तर्यार्थत्वमेवाथशब्दस्य स्वीकृतम्, प्रकृते तु शेषत्वनिरूपणपरशब्दव्यापारसंभवेनाधिकारार्थत्वोपपत्तेः तस्यच भेदलक्षणानन्तरमेव क्रियमाणत्वेनानन्तर्यस्य तदुपजीव्यत्वेनच पूर्वप्रकृतापेक्षत्वस्यार्थादेव सिद्धेर्न तदर्थकत्वमप्याश्रयणीयम् ॥ तदुक्तं वार्तिके ------- "एवमर्थद्वये तावदथशब्दस्य वर्णिते । संबन्धो ऽध्याययोरुक्तो यद्वार्थात् सिद्ध एव सः ॥ ततश्चापुनरुक्तत्वाद्वक्ष्यमाणार्थगोचरा । अधिकारार्थता वक्तुमथशब्दस्य वक्ष्यते" इति ॥ एवमथशब्दार्थं सूचयन् सुखग्रहणाय वृत्तवर्तिष्यमाणार्थं प्रतिजानीते ------- तदेवमिति ॥ "शेषस्यैवाधिकारो ऽत्र युक्तो नान्यस्य कस्य चित् । शेषधीसिद्ध्यपेक्षत्वादन्यलक्षणवाक्धियामि"ति वार्तिकोक्तावसरं सूचयितुं -------- संप्रतीत्युक्तम् । यद्यप्यन्योन्यसंबन्धात् शेषशेषिणोरुभयोरपि ज्ञानाय निरूपणमावश्यकम्, प्रत्युत प्राधान्यात् शेषिनिरूपणमेव कर्तुं युक्तमितिसूत्रे शेषलक्षणमित्युक्तमयुक्तमित्याशङ्कानिरासाय ------- शेषिनिरूपितेत्याद्युक्तम् । शेषो ऽस्यास्तीतिमत्वर्थतया विशिष्टशेषिनिरूपणे कर्तव्ये विशेषणविधया शेषस्य निरूपणावश्यकत्वात् तन्निरूपणे चार्थादेव शेषिनिरूपणसिद्धेः श्रुत्यादिप्रमाणानां च शेषत्व एव व्यापारात् तत्समवाये बलाबलस्य च शेषिण्यविरुद्धत्वेन शेष एव संभवादावश्यकं शेषनिरूपणमेव कर्तव्यमभिप्रेत्य सूत्रे तन्मात्रप्रतिज्ञानम् । तत्रच वक्ष्यमाणलक्षणाङ्गत्वघटकीभूतोद्देश्यताशालित्वरूपशेषित्वस्यार्ऽथादेव निरूपणमिति न विरोधः । एतेन ------- शेषित्वज्ञानस्य नान्तरीयसिद्धिकत्वमुपपादितवतोपि सोमनाथस्य तन्निरूपणे ऽप्यध्यायार्थत्वोक्तिः वार्तिकविरुद्धत्वात् ---------- अपास्तेति भावः ॥ सूत्रे शेषपदे भावप्रधानत्वस्य अनन्ताध्याहाराद्यर्थपरत्वाभावस्यच सूचनेन शेषत्वमङ्गत्वं लक्ष्यते येनाध्यायेन तं वक्ष्याम इति सूत्रार्थमभिप्रेत्याह --------- शेषत्वेति ॥ सौत्रातःशब्दसिद्धां पूर्वोत्तराध्यायार्थनिरूपणयोः हेतुहेतुमद्भावसंगतिं दर्शयति -------- भिन्नानामिति । द्रव्यकर्मणोरिति ॥ दध्यादिद्रव्याणां तथा कर्मणां लोकसिद्धभेदवतां द्वितीये ऽनिरूपितभेदानां मिथः अङ्गाङ्गिभाव इत्यर्थः । कर्मणामेव मिथो ऽङ्गाङ्गिभावनिरूपणस्य द्वितीयाध्यायसिद्धभेदनिरूपणाधीनत्वात् सामानाधिकरण्येन सङ्गत्युपपत्त्या परिहरति तथापीति ॥ द्रव्याद्यङ्गत्वनिरूपणस्य अस्मिन् पक्षे असङ्गत्यापत्तिं परिहर्तुं पक्षान्तरमाह ------- अंश एवेति ॥ शेषत्वमात्रनिरूपणस्य अध्यायार्थत्वेनेत्यादिः ॥ प्रमाणनिरूपणस्य करिष्यमाणस्याध्यायसङ्गतिं परिहरन्नाह -------- तच्चानेकेति ॥ ततश्च शेषत्वलक्षणप्रतिज्ञयैव तत्संबन्धिविचारजातस्य करिष्यमाणस्य सर्वस्य प्रतिज्ञाया अप्यध्यायार्थत्वान्न तस्यासङ्गतिरित्यर्थः ॥ तत्र भाष्ये कः शेषः केन हेतुना शेषः कथं च विनियुज्यते इत्यादीनि च विनियोगे कारणानीह वक्ष्यन्ते । तेषां च बलावदबलवत्ता । एतत्तात्पर्येणान्यदप्युपोद्घातादिनेत्यनेकप्रकारता दर्शिता । तत्र ःशेषः परार्थत्वाद्ःइति उत्तरसूत्रे पञ्चम्यन्तेन हेतूपादानद्वारा लक्षणस्योक्तस्य शाब्दत्वप्रतीतेस्तेनैव अर्थात्सिद्धस्य स्वरूपस्यार्थिकत्वमभिप्रेत्य स्वरूपकथनपरस्यापि भाष्यस्यार्थिकाभिप्रायकतां सूचयन् लक्षणपरतया व्याख्यानं दर्शयति ---------- अङ्गत्वलक्षणमिति ॥ येन प्रवृत्तिनिमित्तेन हेतुना शेषपदं प्रयाजादिषु प्रयुज्यते, तच्छेषपदशक्यतावच्छेदकमेवेत्यभिप्रेत्य द्वितीयप्रतिज्ञापरभाष्यार्थमाह ------- शेषपदेति ॥ अवघातादिकं श्रुत्यादिभिर्विनियुज्यमानं श्रुतरूपावच्छिन्नोद्देश्यताबाधेन सर्वेषु विनियुज्यते उत तदभावेनेत्यर्थकतृतीयप्रतिज्ञापरभाष्यस्य तात्पर्यार्थं दर्शयति --------- अङ्गाङ्गितयोरिति ॥ एतत्तात्पर्येणान्यदप्युपोद्घातादिनेति भाष्यसूचितं प्रतिज्ञान्तरमाह -------- विरोधश्चेति ॥ आदिपदेन विरोधाविरोधविचारप्रसक्तानुप्रसक्त्या करिष्यमाणविचारस्य संग्रहः ॥ इति प्रथमं प्रतिज्ञाधिकरणम् ॥ ------------- <ब्१> (२ अधिकरणम्)(अ।३ पा।१ अधि।२) शेषः परार्थत्वात्

aṃśa eva hetutvaṃ, aṃśāntare tu tu tatprasaṅgānnirūpaṇamityapi bodhyam / aṅgatvameva vādhyāyārtho 'ṅgitvaṃ tvarthāt / tadapi ca śrutyādiṣaṭpramāṇakaṃ, atideśapramāṇakasyehāvicāryatvāt / taccānekaprakārakaṃ vicāryate / aṅgatvalakṣaṇam śeṣapadaśakyatvāvacchedakam, aṅgāṅgitayoravacchedakam, śrutyādīni ca ṣaṭ aṅgatve pramāṇāni, tayorvirodhe balābalam, virodhaśca kvāsti kva nāstītyādi // 3 // 1 // iti prathamaṃ pratijñādhikaraṇam // <B2> ajñānatimiradhvaṃsi satyajñānaprakāśakam / sarvābhīṣṭapradaṃ naumi śrīrūpaṃ sundaraṃ mahaḥ // 1 // yo vedaśāstrārṇavapāradṛśvā yajñādikarmācaraṇe 'tidakṣaḥ / sadāśivārādhanaśuddhacittastaṃ bālakṛṣṇaṃ pitaraṃ namāmi // 2 // śrīkhaṇḍadevaṃ praṇipatya sadguruṃ mīmāṃsakasvāntasarojabhāskaram / atyantasaṃkṣiptapadārthatatkṛtau prabhāvalīṭippaṇamātanobhyaham // 3 // yadyapyatra guroḥ kṛtāvapi mayāpyudbhāvyate kācanā- saṃbhūtistadapi pracāracature naiṣā purobhāgitā / kintu kṣmātilakāḥ kuśāgradhiṣaṇāḥ siddhāntabaddhādarāḥ madvākyaṃ parihṛtya tatkṛtimalaṅkurvantviyaṃ me matiḥ // 4 // yadyapyathaśabdasya ānantaryapūrvaprakṛtāpekṣitvamadhikāraśceti trayor'thāḥ; tathāpi jijñāsāsūtre śabdena nirdiṣṭasyaiva pūrvaprakṛtaniyame satyadhyayanasya pūrvaṃ śabdena nirdiṣṭatvābhāvena pūrvaprakṛtāpekṣārthatvānupapatteḥ jijñāsāyāśca pramāṇaparatantratvena kṛtisādhyatvābhāvāt śabdavyāpāradvārā adhikārāsaṃbhavāt vicāralakṣaṇāyāṃ pramāṇābhāvācca tadubhayārthatvamanaṅgīkṛtya ānantaryārthatvamevāthaśabdasya svīkṛtam, prakṛte tu śeṣatvanirūpaṇaparaśabdavyāpārasaṃbhavenādhikārārthatvopapatteḥ tasyaca bhedalakṣaṇānantarameva kriyamāṇatvenānantaryasya tadupajīvyatvenaca pūrvaprakṛtāpekṣatvasyārthādeva siddherna tadarthakatvamapyāśrayaṇīyam // taduktaṃ vārtike ------- "evamarthadvaye tāvadathaśabdasya varṇite / saṃbandho 'dhyāyayorukto yadvārthāt siddha eva saḥ // tataścāpunaruktatvādvakṣyamāṇārthagocarā / adhikārārthatā vaktumathaśabdasya vakṣyate" iti // evamathaśabdārthaṃ sūcayan sukhagrahaṇāya vṛttavartiṣyamāṇārthaṃ pratijānīte ------- tadevamiti // "śeṣasyaivādhikāro 'tra yukto nānyasya kasya cit / śeṣadhīsiddhyapekṣatvādanyalakṣaṇavākdhiyāmi"ti vārtikoktāvasaraṃ sūcayituṃ -------- saṃpratītyuktam / yadyapyanyonyasaṃbandhāt śeṣaśeṣiṇorubhayorapi jñānāya nirūpaṇamāvaśyakam, pratyuta prādhānyāt śeṣinirūpaṇameva kartuṃ yuktamitisūtre śeṣalakṣaṇamityuktamayuktamityāśaṅkānirāsāya ------- śeṣinirūpitetyādyuktam / śeṣo 'syāstītimatvarthatayā viśiṣṭaśeṣinirūpaṇe kartavye viśeṣaṇavidhayā śeṣasya nirūpaṇāvaśyakatvāt tannirūpaṇe cārthādeva śeṣinirūpaṇasiddheḥ śrutyādipramāṇānāṃ ca śeṣatva eva vyāpārāt tatsamavāye balābalasya ca śeṣiṇyaviruddhatvena śeṣa eva saṃbhavādāvaśyakaṃ śeṣanirūpaṇameva kartavyamabhipretya sūtre tanmātrapratijñānam / tatraca vakṣyamāṇalakṣaṇāṅgatvaghaṭakībhūtoddeśyatāśālitvarūpaśeṣitvasyār'thādeva nirūpaṇamiti na virodhaḥ / etena ------- śeṣitvajñānasya nāntarīyasiddhikatvamupapāditavatopi somanāthasya tannirūpaṇe 'pyadhyāyārthatvoktiḥ vārtikaviruddhatvāt ---------- apāsteti bhāvaḥ // sūtre śeṣapade bhāvapradhānatvasya anantādhyāhārādyarthaparatvābhāvasyaca sūcanena śeṣatvamaṅgatvaṃ lakṣyate yenādhyāyena taṃ vakṣyāma iti sūtrārthamabhipretyāha --------- śeṣatveti // sautrātaḥśabdasiddhāṃ pūrvottarādhyāyārthanirūpaṇayoḥ hetuhetumadbhāvasaṃgatiṃ darśayati -------- bhinnānāmiti / dravyakarmaṇoriti // dadhyādidravyāṇāṃ tathā karmaṇāṃ lokasiddhabhedavatāṃ dvitīye 'nirūpitabhedānāṃ mithaḥ aṅgāṅgibhāva ityarthaḥ / karmaṇāmeva mitho 'ṅgāṅgibhāvanirūpaṇasya dvitīyādhyāyasiddhabhedanirūpaṇādhīnatvāt sāmānādhikaraṇyena saṅgatyupapattyā pariharati tathāpīti // dravyādyaṅgatvanirūpaṇasya asmin pakṣe asaṅgatyāpattiṃ parihartuṃ pakṣāntaramāha ------- aṃśa eveti // śeṣatvamātranirūpaṇasya adhyāyārthatvenetyādiḥ // pramāṇanirūpaṇasya kariṣyamāṇasyādhyāyasaṅgatiṃ pariharannāha -------- taccāneketi // tataśca śeṣatvalakṣaṇapratijñayaiva tatsaṃbandhivicārajātasya kariṣyamāṇasya sarvasya pratijñāyā apyadhyāyārthatvānna tasyāsaṅgatirityarthaḥ // tatra bhāṣye kaḥ śeṣaḥ kena hetunā śeṣaḥ kathaṃ ca viniyujyate ityādīni ca viniyoge kāraṇānīha vakṣyante / teṣāṃ ca balāvadabalavattā / etattātparyeṇānyadapyupodghātādinetyanekaprakāratā darśitā / tatra ḥśeṣaḥ parārthatvādḥiti uttarasūtre pañcamyantena hetūpādānadvārā lakṣaṇasyoktasya śābdatvapratītestenaiva arthātsiddhasya svarūpasyārthikatvamabhipretya svarūpakathanaparasyāpi bhāṣyasyārthikābhiprāyakatāṃ sūcayan lakṣaṇaparatayā vyākhyānaṃ darśayati ---------- aṅgatvalakṣaṇamiti // yena pravṛttinimittena hetunā śeṣapadaṃ prayājādiṣu prayujyate, taccheṣapadaśakyatāvacchedakamevetyabhipretya dvitīyapratijñāparabhāṣyārthamāha ------- śeṣapadeti // avaghātādikaṃ śrutyādibhirviniyujyamānaṃ śrutarūpāvacchinnoddeśyatābādhena sarveṣu viniyujyate uta tadabhāvenetyarthakatṛtīyapratijñāparabhāṣyasya tātparyārthaṃ darśayati --------- aṅgāṅgitayoriti // etattātparyeṇānyadapyupodghātādineti bhāṣyasūcitaṃ pratijñāntaramāha -------- virodhaśceti // ādipadena virodhāvirodhavicāraprasaktānuprasaktyā kariṣyamāṇavicārasya saṃgrahaḥ // iti prathamaṃ pratijñādhikaraṇam // ------------- <B1> (2 adhikaraṇam)(a.3 pā.1 adhi.2) śeṣaḥ parārthatvāt

Sanskrit only: no published translation is held for this verse.

यद्यपि च नेदृशमङ्गत्वं श्रुत्यादिप्रमाणकं, कारकत्वमात्राभिधायित्वात् तृतीयादेः । तथापि यत्पदार्थः स्वर्गादिपदात्, तदुद्देश्यकत्वं संसर्गादिना, कृतिराख्यातात्, कारकत्वं तृतीयादेः, विध्यन्वयित्वं विधिपदसमभिव्याहारात् । विधिर्हि विशिष्टभावनां विदधदर्थाद्विशेषणान्यपि विधत्ते इति सर्वेषामुद्देश्यत्वेन विधेयत्वेन वा विध्यन्वयः । अतएवाङ्गत्वघटकीभूतपदार्थान्तराणां प्रमाणान्तरेण प्रसिद्धावपि तद्घटककारकत्वस्य श्रुत्यादिगम्यत्वात्तेषामङ्गत्वप्रामाण्यव्यवहारः ॥ ३ ॥ २ ॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ <ब्२> प्रयाजादौ शेषपदवाच्यतानुमाने परार्थत्वस्य पञ्चम्या हेतुत्वाभिधानात् तस्यैव शेषपदशक्यतावच्छेदकत्वम्, अर्थाच्च स्वरूपपरिचायकत्वात् लक्षणत्वमपीत्यभिप्रेत्याह ------- यदेवहीति ॥ यत्तु उपकारकत्वं शेषत्वं बादरिणोच्यते, यच्च येन विना यन्न भवति स बीजादिरङ्कुरादेः शेष इत्येवमविनाभावहेतुकं शेषत्वं परैरुच्यते, तन्निराकर्तुं "शेषः परार्थत्वादि" तिसूत्रेण पारार्थ्यरूपं शेषत्वमुक्तं जैमिनिना । तद्व्याचष्टे --------- तत्रेति ॥ पश्वङ्गभूतानामपि प्रयाजगोदोहनादीनां पुरोडाशप्रणयनाद्युपकारकत्वेन तदङ्गत्वापत्तेरयुक्तमुपकारकत्वरूपं तल्लक्षणम् तथा आग्नेयादीनां मिथो ऽविनाभावेन परस्परमङ्गत्वापत्तेरविनाभावलक्षणमप्ययुक्तम्, किन्तु पारार्थ्यमेवेत्यर्थः ॥ ननु किमिदं परार्थत्वं नाम? तद्यदि परोद्देशप्रवृत्तकृति समवायित्वं तदाचेतने यागादावव्याप्तिः, यदितूक्तकृतिसाध्यत्वं तदा देशकालकर्त्रादावव्याप्तिः । एतेन ------ परोद्देशप्रवृत्तकृतिव्याप्यत्वापरपर्यायमङ्गत्वं पारार्थ्यमिति न्यायप्रकाशोक्तं -------- अपास्तम् । यदि तु उक्तकृतिसंबन्धित्वं तदा निमित्ते ऽतिव्याप्तिः । अतः पारार्थ्यस्यापि निर्वचनानर्हत्वान्न तल्लक्षणत्वं संभवतीत्यत आह -------- तत्रेति ॥ तदङ्गत्वमिति ॥ तदुद्देश्यनिरूपिताङ्गत्वमित्यर्थः । कारकत्वेन विध्यन्वयादिति । कृतौ कारकत्वेन हेतुना तद्विशिष्टकृतौ विध्यन्वये सत्यर्थात् विशेषणीभूते यागे विध्यनुप्रवेशेन विध्यन्वयाद्विहितत्वं यागे इति लक्षणसमन्वय इत्यर्थः ॥ सप्तमाद्ये स्वर्गोद्देशेन प्रयाजादीनां विधानाशङ्कानिराकरणपूर्वकं परिप्लवत्वं निराकरिष्यते, तदनुसंधाय लक्षणान्वयं दर्शयति -------- प्रधानोद्देशेति ॥ द्रव्यस्य क्रियानिवर्तकत्वेन गुणस्य द्रव्यपरिच्छेदकत्वेन कारकतया विधानात् करणत्वेनान्वयात् तत्रापि तदन्वयं दर्शयति --------- द्रव्येति ॥ एतच्च क्रमस्यापि पदार्थपरिच्छेदकत्वेन कारकतया विधानात् तस्याप्युपलक्षणम् ॥ षष्ठीति ॥ यथाध्वर्यवमिति समाख्याकल्पितविधौ अध्वर्योः षष्ठ्या संबन्धमात्रावगमे ऽपि तस्य कर्तृत्वे पर्यवसानेर्न कर्तृतया तत्तत्पदार्थाङ्गत्वमित्यर्थः ॥ निमित्तस्यानुष्ठापकतया उद्देश्यत्वेनान्वयात् निमित्तोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वस्य यागे सत्त्वान्निमित्ताङ्गत्वं निरसितुमाह ---------- निमित्तस्येति ॥ यथाचास्येति ॥ अतिदेशेन प्रयाजादीनां पशुयागोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वे ऽपि पशुपुरोडाशे उपकारमात्राक्षेपेण पदार्थांशे ऽतिदेशाकल्पनेन तदुद्देशप्रवृत्तकृतिकारकत्वेन विधानाभावान्नातिव्याप्तिः । एवं गोदोहनस्य प्रणयनोपकारकस्यापि तदुद्देश्यककृतिकारकत्वाभावान्नातिव्याप्तिः ॥ अत्रच कृतिकारकत्वमित्येतावन्मात्रोक्तौ फलस्यापि कर्मतासंबन्धेन कृतिकारकत्वात् फलाङ्गत्वापत्तिः । अतः परोद्देशप्रवृत्तेत्यर्थकं यदुद्देशप्रवृत्तेति कृतिविशेषणम् । फलस्यच फलं प्रति परत्वाभावात् फलोद्देशप्रवृत्तपुरुषकृतौ कर्मतया फलस्य विध्यन्वयेन भोक्त्रङ्गत्वे ऽपि न फलाङ्गत्वप्रसक्तिः, एतदेवाभिप्रेत्य उद्देश्यतापदेनैवेत्याद्युक्तम् । अपूर्वस्यापि फलोद्देशप्रवृत्तकृतौ करणत्वेनान्वयात् फलाङ्गत्वोपपत्तिरित्यादि कौस्तुभे द्रष्टव्यो विस्तर इत्यर्थः ॥ यद्यप्यवघातादीनामङ्गत्वे व्रीह्यादीनां लोकसिद्धानामेवोपादानान्न तदुद्देशप्रवृत्तकृतिरस्ति; तथापि अपूर्वसाधनत्वाकारेण तदुद्देश्यकृतिसंभवान्न क्षतिः ॥ भावनादिप्रतीतिः कृतेः कृत्यन्तराभावात् यागस्य भावनां प्रति तस्याश्च फलं प्रति शब्दभावनायाश्च अर्थभावनां प्रति पश्वादेश्च कारकं प्रति कारकत्वस्यच क्रियां प्रत्यङ्गत्वव्यवहारो भाक्त इत्यर्थः ॥ यत्तु प्रकाशकारैः ------ भावनायाः फलाङ्गत्वादिव्यवहारस्य मुख्यत्वसिद्धौ इष्टोद्देश्यप्रवर्तनाप्रयोज्यत्वं स्वस्वेष्टं प्रत्यङ्गत्वम्, प्रयोज्यत्वञ्च कार्यतत्कार्यसाधारणम् । प्रवर्तनाकार्यं प्रवृत्तिस्तत्कार्यञ्च यागफलादि स्वस्वेष्टं प्रत्यङ्गम् ------- इत्युक्तम्, तत् द्रव्यदेशकालकर्त्रादेरपि करणत्वाधिकरणत्वकर्तृत्वादिप्रवृत्तिद्वारा प्रवर्तनाजन्यत्वेन तस्याप्यङ्गत्वापत्तेः शाब्दभावनाया आर्थभावनाङ्गत्वस्यैवमपि दुरुपपादत्वात् अयुक्तमिति व्यक्तं कौस्तुभे ॥ यदपि भाट्टालङ्कारकृता --------- विध्यन्वयिन्यां कृतौ यद्विषयत्वानुपपत्तिर्यदुद्देश्यकत्वेन परिह्रियते तत् तस्याङ्गं तदर्थमिति ------- उक्तम्, तन्न; कालसंबन्धबोधकवाक्ये कालादिवृत्तिकृतविषयत्वानुपपत्तिपरिहारस्य कर्मोद्देश्यत्वेनाप्यसंभवादेव कालोद्देशेन कर्मण एव कृतिविषयत्वाङ्गीकारेण कर्मणः कालाङ्गत्वापत्त्या कालस्य कर्माङ्गत्वानापत्तेः । अस्मन्मतेतु कृतिविषयत्वरूपोपादेयत्वसामानाधिकरण्येन विधेयत्वस्यैव औत्सर्गिकस्य सन्निध्यादिप्रत्यभिज्ञापकप्रमाणसत्त्वे बाधेनोपादेयत्वसमानाधिकरणविधेयत्वासंभवे ऽपि अज्ञाततदधिकरणत्वज्ञापनेन विधेयत्वं नानुपपन्नम् ॥ अत्रच व्यापारभेदेन कारकाणां भेदात् तद्घटिताङ्गत्वस्यापि प्रतिपदार्थं भेदावगमेन तत्तदङ्गत्वं प्रति प्रयाजत्वादेरेव लक्ष्यतावच्छेदकत्वं सूचयितुं लक्षणे यत्तच्छब्दोपादानम् । कृतिकारकत्वेन विध्यन्वयित्वरूपपारार्थ्यस्य श्रुत्यादिप्रमाणानि विना वक्तुमशक्तेस्तान्यप्यर्थादिह उपक्षिप्तानीति ध्येयम् ॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ -------------- <ब्१> (३ अधिकरणम् । ) (अ।३ पा।१ अधि।३) द्रव्यगुणसंस्कारेषु बादरिः

yadyapi ca nedṛśamaṅgatvaṃ śrutyādipramāṇakaṃ, kārakatvamātrābhidhāyitvāt tṛtīyādeḥ / tathāpi yatpadārthaḥ svargādipadāt, taduddeśyakatvaṃ saṃsargādinā, kṛtirākhyātāt, kārakatvaṃ tṛtīyādeḥ, vidhyanvayitvaṃ vidhipadasamabhivyāhārāt / vidhirhi viśiṣṭabhāvanāṃ vidadhadarthādviśeṣaṇānyapi vidhatte iti sarveṣāmuddeśyatvena vidheyatvena vā vidhyanvayaḥ / ataevāṅgatvaghaṭakībhūtapadārthāntarāṇāṃ pramāṇāntareṇa prasiddhāvapi tadghaṭakakārakatvasya śrutyādigamyatvātteṣāmaṅgatvaprāmāṇyavyavahāraḥ // 3 // 2 // // iti dvitīyaṃ śeṣalakṣaṇādhikaraṇam // <B2> prayājādau śeṣapadavācyatānumāne parārthatvasya pañcamyā hetutvābhidhānāt tasyaiva śeṣapadaśakyatāvacchedakatvam, arthācca svarūpaparicāyakatvāt lakṣaṇatvamapītyabhipretyāha ------- yadevahīti // yattu upakārakatvaṃ śeṣatvaṃ bādariṇocyate, yacca yena vinā yanna bhavati sa bījādiraṅkurādeḥ śeṣa ityevamavinābhāvahetukaṃ śeṣatvaṃ parairucyate, tannirākartuṃ "śeṣaḥ parārthatvādi" tisūtreṇa pārārthyarūpaṃ śeṣatvamuktaṃ jaimininā / tadvyācaṣṭe --------- tatreti // paśvaṅgabhūtānāmapi prayājagodohanādīnāṃ puroḍāśapraṇayanādyupakārakatvena tadaṅgatvāpatterayuktamupakārakatvarūpaṃ tallakṣaṇam tathā āgneyādīnāṃ mitho 'vinābhāvena parasparamaṅgatvāpatteravinābhāvalakṣaṇamapyayuktam, kintu pārārthyamevetyarthaḥ // nanu kimidaṃ parārthatvaṃ nāma? tadyadi paroddeśapravṛttakṛti samavāyitvaṃ tadācetane yāgādāvavyāptiḥ, yaditūktakṛtisādhyatvaṃ tadā deśakālakartrādāvavyāptiḥ / etena ------ paroddeśapravṛttakṛtivyāpyatvāparaparyāyamaṅgatvaṃ pārārthyamiti nyāyaprakāśoktaṃ -------- apāstam / yadi tu uktakṛtisaṃbandhitvaṃ tadā nimitte 'tivyāptiḥ / ataḥ pārārthyasyāpi nirvacanānarhatvānna tallakṣaṇatvaṃ saṃbhavatītyata āha -------- tatreti // tadaṅgatvamiti // taduddeśyanirūpitāṅgatvamityarthaḥ / kārakatvena vidhyanvayāditi / kṛtau kārakatvena hetunā tadviśiṣṭakṛtau vidhyanvaye satyarthāt viśeṣaṇībhūte yāge vidhyanupraveśena vidhyanvayādvihitatvaṃ yāge iti lakṣaṇasamanvaya ityarthaḥ // saptamādye svargoddeśena prayājādīnāṃ vidhānāśaṅkānirākaraṇapūrvakaṃ pariplavatvaṃ nirākariṣyate, tadanusaṃdhāya lakṣaṇānvayaṃ darśayati -------- pradhānoddeśeti // dravyasya kriyānivartakatvena guṇasya dravyaparicchedakatvena kārakatayā vidhānāt karaṇatvenānvayāt tatrāpi tadanvayaṃ darśayati --------- dravyeti // etacca kramasyāpi padārthaparicchedakatvena kārakatayā vidhānāt tasyāpyupalakṣaṇam // ṣaṣṭhīti // yathādhvaryavamiti samākhyākalpitavidhau adhvaryoḥ ṣaṣṭhyā saṃbandhamātrāvagame 'pi tasya kartṛtve paryavasānerna kartṛtayā tattatpadārthāṅgatvamityarthaḥ // nimittasyānuṣṭhāpakatayā uddeśyatvenānvayāt nimittoddeśapravṛttakṛtikārakatvena vihitatvasya yāge sattvānnimittāṅgatvaṃ nirasitumāha ---------- nimittasyeti // yathācāsyeti // atideśena prayājādīnāṃ paśuyāgoddeśapravṛttakṛtikārakatvena vihitatve 'pi paśupuroḍāśe upakāramātrākṣepeṇa padārthāṃśe 'tideśākalpanena taduddeśapravṛttakṛtikārakatvena vidhānābhāvānnātivyāptiḥ / evaṃ godohanasya praṇayanopakārakasyāpi taduddeśyakakṛtikārakatvābhāvānnātivyāptiḥ // atraca kṛtikārakatvamityetāvanmātroktau phalasyāpi karmatāsaṃbandhena kṛtikārakatvāt phalāṅgatvāpattiḥ / ataḥ paroddeśapravṛttetyarthakaṃ yaduddeśapravṛtteti kṛtiviśeṣaṇam / phalasyaca phalaṃ prati paratvābhāvāt phaloddeśapravṛttapuruṣakṛtau karmatayā phalasya vidhyanvayena bhoktraṅgatve 'pi na phalāṅgatvaprasaktiḥ, etadevābhipretya uddeśyatāpadenaivetyādyuktam / apūrvasyāpi phaloddeśapravṛttakṛtau karaṇatvenānvayāt phalāṅgatvopapattirityādi kaustubhe draṣṭavyo vistara ityarthaḥ // yadyapyavaghātādīnāmaṅgatve vrīhyādīnāṃ lokasiddhānāmevopādānānna taduddeśapravṛttakṛtirasti; tathāpi apūrvasādhanatvākāreṇa taduddeśyakṛtisaṃbhavānna kṣatiḥ // bhāvanādipratītiḥ kṛteḥ kṛtyantarābhāvāt yāgasya bhāvanāṃ prati tasyāśca phalaṃ prati śabdabhāvanāyāśca arthabhāvanāṃ prati paśvādeśca kārakaṃ prati kārakatvasyaca kriyāṃ pratyaṅgatvavyavahāro bhākta ityarthaḥ // yattu prakāśakāraiḥ ------ bhāvanāyāḥ phalāṅgatvādivyavahārasya mukhyatvasiddhau iṣṭoddeśyapravartanāprayojyatvaṃ svasveṣṭaṃ pratyaṅgatvam, prayojyatvañca kāryatatkāryasādhāraṇam / pravartanākāryaṃ pravṛttistatkāryañca yāgaphalādi svasveṣṭaṃ pratyaṅgam ------- ityuktam, tat dravyadeśakālakartrāderapi karaṇatvādhikaraṇatvakartṛtvādipravṛttidvārā pravartanājanyatvena tasyāpyaṅgatvāpatteḥ śābdabhāvanāyā ārthabhāvanāṅgatvasyaivamapi durupapādatvāt ayuktamiti vyaktaṃ kaustubhe // yadapi bhāṭṭālaṅkārakṛtā --------- vidhyanvayinyāṃ kṛtau yadviṣayatvānupapattiryaduddeśyakatvena parihriyate tat tasyāṅgaṃ tadarthamiti ------- uktam, tanna; kālasaṃbandhabodhakavākye kālādivṛttikṛtaviṣayatvānupapattiparihārasya karmoddeśyatvenāpyasaṃbhavādeva kāloddeśena karmaṇa eva kṛtiviṣayatvāṅgīkāreṇa karmaṇaḥ kālāṅgatvāpattyā kālasya karmāṅgatvānāpatteḥ / asmanmatetu kṛtiviṣayatvarūpopādeyatvasāmānādhikaraṇyena vidheyatvasyaiva autsargikasya sannidhyādipratyabhijñāpakapramāṇasattve bādhenopādeyatvasamānādhikaraṇavidheyatvāsaṃbhave 'pi ajñātatadadhikaraṇatvajñāpanena vidheyatvaṃ nānupapannam // atraca vyāpārabhedena kārakāṇāṃ bhedāt tadghaṭitāṅgatvasyāpi pratipadārthaṃ bhedāvagamena tattadaṅgatvaṃ prati prayājatvādereva lakṣyatāvacchedakatvaṃ sūcayituṃ lakṣaṇe yattacchabdopādānam / kṛtikārakatvena vidhyanvayitvarūpapārārthyasya śrutyādipramāṇāni vinā vaktumaśaktestānyapyarthādiha upakṣiptānīti dhyeyam // // iti dvitīyaṃ śeṣalakṣaṇādhikaraṇam // -------------- <B1> (3 adhikaraṇam / ) (a.3 pā.1 adhi.3) dravyaguṇasaṃskāreṣu bādariḥ

Sanskrit only: no published translation is held for this verse.

कर्माण्यपि जैमिनिः फलार्थत्वात्

karmāṇyapi jaiminiḥ phalārthatvāt

Sanskrit only: no published translation is held for this verse.

फलं च पुरुषार्थत्वात्

phalaṃ ca puruṣārthatvāt

Sanskrit only: no published translation is held for this verse.

पुरुषश् च कर्मार्थत्वात्

puruṣaś ca karmārthatvāt

Sanskrit only: no published translation is held for this verse.

तेषाम् अर्थेन संबन्धः

teṣām arthena saṃbandhaḥ

Sanskrit only: no published translation is held for this verse.

विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च

vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca

Sanskrit only: no published translation is held for this verse.

अर्थलोपाद् अकर्मे स्यात्

arthalopād akarme syāt

Sanskrit only: no published translation is held for this verse.

फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात्

phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt

Sanskrit only: no published translation is held for this verse.

द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत

dravyaṃ cotpattisaṃyogāt tad artham eva codyeta

Sanskrit only: no published translation is held for this verse.

अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात्

arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt

Sanskrit only: no published translation is held for this verse.

एकत्वयुक्तम् एकस्य श्रुतिसंयोगात्

ekatvayuktam ekasya śrutisaṃyogāt

Sanskrit only: no published translation is held for this verse.

सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम्

sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam

Sanskrit only: no published translation is held for this verse.

चोदिते तु परार्थत्वाद् यथाश्रुति प्रतीयेता

codite tu parārthatvād yathāśruti pratīyetā

Sanskrit only: no published translation is held for this verse.

संस्काराद् वा गुणानाम् अव्यवस्था स्यात्

saṃskārād vā guṇānām avyavasthā syāt

Sanskrit only: no published translation is held for this verse.

व्यवस्था वार्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात्

vyavasthā vārthasya śrutisaṃyogāt tasya śabdapramāṇatvāt

Sanskrit only: no published translation is held for this verse.

आनर्थक्यात्तदङ्गेषु

ānarthakyāttadaṅgeṣu

Sanskrit only: no published translation is held for this verse.

कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात्

kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt

Sanskrit only: no published translation is held for this verse.

साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण

sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa

Sanskrit only: no published translation is held for this verse.

संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात्

saṃdigdhe tu vyavāyād vākyabhedaḥ syāt

Sanskrit only: no published translation is held for this verse.

गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात्

guṇānāṃ ca parārthattvād asambandhaḥ samatvāt syāt

Sanskrit only: no published translation is held for this verse.

मिथश् चानर्थसंबन्धात्

mithaś cānarthasaṃbandhāt

Sanskrit only: no published translation is held for this verse.

आनन्तर्यम् अचोदना

ānantaryam acodanā

Sanskrit only: no published translation is held for this verse.

वाक्यानां च समाप्तत्वात्

vākyānāṃ ca samāptatvāt

Sanskrit only: no published translation is held for this verse.

शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात्

śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asaṃbandhāt

Sanskrit only: no published translation is held for this verse.

व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः

vyavasthā vārthasaṃyogāl liṅgasyārthena saṃbandhāl lakṣaṇārthā guṇaśrutiḥ

Sanskrit only: no published translation is held for this verse.