देवैर् अत्रापि विचिकित्सितं किल त्वं च मृत्यो यन् न सुज्ञेयम् आत्थ । वक्ता चास्य त्वादृग् अन्यो न लभ्यो नान्यो वरस् तुल्य एतस्य कश्चित् ॥ देवैर् अत्राप्य् एतस्मिन् वस्तुनि विचिकित्सितं किलेति भवत एव नः श्रुतम् । त्वं च मृत्यो यद्य् अस्मान् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि । अतः पण्डितैर् अप्य् अवदनीयत्वाद् वक्ता चास्य धर्मस्य त्वादृक् त्वत्तुल्यो ऽन्यः पण्डितश् च न लभ्यो ऽन्विष्यमाणो ऽप्य् अयं तु वरो निःश्रेयसप्राप्तिहेतुः । अतो नान्यो वरस् तुल्यः सदृशो ऽस्त्य् एतस्य कश्चिद् अप्य्, अनित्यफलत्वाद् अन्यस्य सर्वस्यैवेत्य् अभिप्रायः ॥ कउभ्_१।२२।१,१।२२ ॥ एवम् उक्तो ऽपि पुनः प्रलोभयन्न् उवाच मृत्युः --
devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // devair atrāpy etasmin vastuni vicikitsitaṃ kileti bhavata eva naḥ śrutam / tvaṃ ca mṛtyo yady asmān na sujñeyam ātmatattvam āttha kathayasi / ataḥ paṇḍitair apy avadanīyatvād vaktā cāsya dharmasya tvādṛk tvattulyo 'nyaḥ paṇḍitaś ca na labhyo 'nviṣyamāṇo 'py ayaṃ tu varo niḥśreyasaprāptihetuḥ / ato nānyo varas tulyaḥ sadṛśo 'sty etasya kaścid apy, anityaphalatvād anyasya sarvasyaivety abhiprāyaḥ // KaUBh_1.22/1,1.22 // evam ukto 'pi punaḥ pralobhayann uvāca mṛtyuḥ --
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.