शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यम् अश्वान् । भूमेर् महद् आयतनं वृणीष्व स्वयं च जीव शरदो यावद् इच्छसि ॥ शतायुषः शतं वर्षाण्य् आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व । किञ् च गवादिलक्षणान् बहून् पशून्, हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम्, अश्वांश् च । किञ् च भूमेः पृथिव्या महद् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व । किञ् च सर्वम् अप्य् एतद् अनर्थकं स्वयं चेद् अल्पायुर् इत्य् अत आह -- स्वयं च त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावद् इच्छसि जीवितुम् ॥ कउभ्_१।२३।१,१।२३ ॥
śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // śatāyuṣaḥ śataṃ varṣāṇy āyūṃṣi yeṣāṃ tān śatāyuṣaḥ putrapautrān vṛṇīṣva / kiñ ca gavādilakṣaṇān bahūn paśūn, hastihiraṇyaṃ hastī ca hiraṇyaṃ ca hastihiraṇyam, aśvāṃś ca / kiñ ca bhūmeḥ pṛthivyā mahad vistīrṇam āyatanam āśrayaṃ maṇḍalaṃ sāmrājyaṃ vṛṇīṣva / kiñ ca sarvam apy etad anarthakaṃ svayaṃ ced alpāyur ity ata āha -- svayaṃ ca tvaṃ jīva dhāraya śarīraṃ samagrendriyakalāpaṃ śarado varṣāṇi yāvad icchasi jīvitum // KaUBh_1.23/1,1.23 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.