काष्ठ-मेढ्रकयोश् च संयुक्तयोश् च स्त्री-पुंसयोर् अजैडकानां देव-कुल-गृहकाणां च शुक-परभृत-मदन-सारिका-लाव-कुक्कुट-तिरि-पिञ्जरकाणां च विचित्राकृति-संयुक्तानां जल-भाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानाम् अलक्तक-मनःशिला-हरिताल-हिङ्गुलक-श्यामवर्णकादीनां तथा चन्दन-कुङ्कुमयोः पूग-फलानां पत्त्राणां काल-युक्तानां च सक्ति-विषये प्रच्छन्नं दानं प्रकाश-द्रव्याणां च प्रकाशम्। यथा च सर्वाभिप्राय-संवर्धकम् एनं मन्येत तथा प्रयतितव्यम्।
kāṣṭha-meḍhrakayoś ca saṃyuktayoś ca strī-puṃsayor ajaiḍakānāṃ deva-kula-gṛhakāṇāṃ ca śuka-parabhṛta-madana-sārikā-lāva-kukkuṭa-tiri-piñjarakāṇāṃ ca vicitrākṛti-saṃyuktānāṃ jala-bhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktaka-manaḥśilā-haritāla-hiṅgulaka-śyāmavarṇakādīnāṃ tathā candana-kuṅkumayoḥ pūga-phalānāṃ pattrāṇāṃ kāla-yuktānāṃ ca sakti-viṣaye pracchannaṃ dānaṃ prakāśa-dravyāṇāṃ ca prakāśam. yathā ca sarvābhiprāya-saṃvardhakam enaṃ manyeta tathā prayatitavyam.
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.