प्रमन्दो गेन्दुकः । उशीरः प्रसिद्धः । शलली प्रसिद्धा । उपधानं विद्यागन्धुकम् । शकधूमो ब्राह्मणः । एते जरन्तो जीर्णा ग्राह्याः । यथा ऽप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छतिऽ (कौश्स् ३२।२९) । ऽउशीराणि भिनद्मि (५।२३।१३) इति मन्त्रोक्तम्ऽ (कौश्स् २९।२४) । ऽत्रिः शलल्या मासं प्राशयतिऽ (कौश्स् २९।१२) । ऽसोपधानमास्तरणम्ऽ (कौश्स् ६४।२६) । ऽशकधूमं किमद्याहरिति पृच्छतिऽ (कौश्स् ५०।१५) । एतान्युदाहरणानि ॥ सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि
pramando gendukaḥ | uśīraḥ prasiddhaḥ | śalalī prasiddhā | upadhānaṃ vidyāgandhukam | śakadhūmo brāhmaṇaḥ | ete jaranto jīrṇā grāhyāḥ | yathā 'pramandālaṅkārān sampātavataḥ prayacchati' (KauśS 32.29) | 'uśīrāṇi bhinadmi (5.23.13) iti mantroktam' (KauśS 29.24) | 'triḥ śalalyā māsaṃ prāśayati' (KauśS 29.12) | 'sopadhānamāstaraṇam' (KauśS 64.26) | 'śakadhūmaṃ kimadyāhariti pṛcchati' (KauśS 50.15) | etānyudāharaṇāni || sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīsāni
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.