ग्रहणं प्रतीकग्रहणम् । ग्रहणमनुग्रहणं तावदनुवर्तते यावत् प्रतीकग्रहणं द्वितीयम् । यथा ऽपूर्वस्य मेधाजननानिऽ (कौश्स् १०।१) इत्याद्यनुवर्तते तावद्यावद् ऽअहं रुद्रेभिःऽ (४।३०; कौश्स् १०।१६) इति द्वितीयमुदाहरणम् । ऽब्राह्मणो जज्ञे (४।६; कौश्स् २८।१) वारिदम् (४।७)ऽ इति ग्रहणं भवति । अग्रे ऽभूतो भूतेषु (४।८; कौश्स् १७।१)ऽ इति ग्रहणात् ऽवारिदम्ऽ इत्यग्रहणेऽपि ग्रहणं भवति ॥ यथार्थमुदर्कान् योजयेत्
grahaṇaṃ pratīkagrahaṇam | grahaṇamanugrahaṇaṃ tāvadanuvartate yāvat pratīkagrahaṇaṃ dvitīyam | yathā 'pūrvasya medhājananāni' (KauśS 10.1) ityādyanuvartate tāvadyāvad 'ahaṃ rudrebhiḥ' (4.30; KauśS 10.16) iti dvitīyamudāharaṇam | 'brāhmaṇo jajñe (4.6; KauśS 28.1) vāridam (4.7)' iti grahaṇaṃ bhavati | agre 'bhūto bhūteṣu (4.8; KauśS 17.1)' iti grahaṇāt 'vāridam' ityagrahaṇe'pi grahaṇaṃ bhavati || yathārthamudarkān yojayet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.