सर्वाणि सूक्तानि प्रत्येतव्यानि । यत्र शान्तिगणस्तत्रायं गणः प्रत्येतव्यः । शम्भुमयोभू ऽआपो हि ष्ठाऽ ऽशं नो देवीऽ (१।५-६) क्रमेण प्रयोगः । तथा व्याकरणे ऽअल्पाच्तरम्ऽ (पा । २।२।३४) इति पूर्वनिपातः कृतः समासे । ऽहिरण्यवर्णाःऽ ऽनिस्सालाम्ऽ इति षडर्चम् । ऽये अग्नयःऽ इति सप्तः । ऽब्रह्म जज्ञानम्ऽ इत्येका । ऽउत देवाःऽ इति सप्तर्चं सूक्तम् । ऽअग्नेर्मन्वःऽ (४।२३-२९) इति सप्त मृगारसूक्तानि गृहीतव्यानि । प्रथमे द्वे (४।२१-२२) उत्तमं (४।३०) च वर्जयित्वा । ऽशं च नो मयश्च नःऽ इत्येका । ऽपुनर्मैत्विन्द्रियम्ऽ इत्येका । ऽशिवा नःऽ इत्येका । ऽशं नो वातो वातुऽ इत्येका । शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । यत्र शान्तिस्तत्रैतानि सर्वाणि प्रत्येतव्यानि ॥ पृथिव्यै श्रोत्राय (६।१०) इति त्रिः प्रत्यासिञ्चति
sarvāṇi sūktāni pratyetavyāni | yatra śāntigaṇastatrāyaṃ gaṇaḥ pratyetavyaḥ | śambhumayobhū 'āpo hi ṣṭhā' 'śaṃ no devī' (1.5-6) krameṇa prayogaḥ | tathā vyākaraṇe 'alpāctaram' (pā | 2.2.34) iti pūrvanipātaḥ kṛtaḥ samāse | 'hiraṇyavarṇāḥ' 'nissālām' iti ṣaḍarcam | 'ye agnayaḥ' iti saptaḥ | 'brahma jajñānam' ityekā | 'uta devāḥ' iti saptarcaṃ sūktam | 'agnermanvaḥ' (4.23-29) iti sapta mṛgārasūktāni gṛhītavyāni | prathame dve (4.21-22) uttamaṃ (4.30) ca varjayitvā | 'śaṃ ca no mayaśca naḥ' ityekā | 'punarmaitvindriyam' ityekā | 'śivā naḥ' ityekā | 'śaṃ no vāto vātu' ityekā | śeṣāṇi sūktāni | anena śāntigaṇena śāntyudakaṃ kuryāt | yatra śāntistatraitāni sarvāṇi pratyetavyāni || pṛthivyai śrotrāya (6.10) iti triḥ pratyāsiñcati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.