आज्यतन्त्रमभ्यातानान्तं कृत्वा ऽस्तुवानम्ऽ, ऽइदं हविःऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं पूर्णपुटेन जुहोति । तत उत्तरतन्त्रम् । ऽनिःसालाम्ऽ इति सूक्तेन वीरिणपुष्पमिश्रितमिङ्गिडमाज्यं जुहोति पालाशपुटेनाज्यतन्त्रे । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽअरायक्षयणम्ऽ इति तिसृभिः वीरिणतूलमिश्रितमिङ्गिडं पलाशपुटेन जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वा ऽशन्नो देवी पृश्निपर्णीऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । ग्रहस्याभिचारोऽयम् । तन्त्रं कृत्वा ऽआ पश्यतिऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा ऽतान्त्सत्यौजाःऽ, ऽत्वया पूर्वम्ऽ इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । पिशाचस्याभिचारकर्म । तन्त्रं कृत्वा ऽपुरस्ताद्युक्तःऽ इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं पर्णपुटेन जुहोति । उत्तरतन्त्रम् । ऽरक्षोहणम्ऽ इत्यनुवाकेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोत्याज्यतन्त्रे । ग्रहाभिचारः समाप्तः ॥ अथास्मिन् गृहे पिशाचोऽस्ति वा न वेति संशये इदं कर्म उच्यते - [इध्माबर्हिः शालायामासजति
ājyatantramabhyātānāntaṃ kṛtvā 'stuvānam', 'idaṃ haviḥ' iti sūktābhyāṃ vīriṇatūlamiśramiṅgiḍaṃ pūrṇapuṭena juhoti | tata uttaratantram | 'niḥsālām' iti sūktena vīriṇapuṣpamiśritamiṅgiḍamājyaṃ juhoti pālāśapuṭenājyatantre | uttaratantram | tantraṃ kṛtvā 'arāyakṣayaṇam' iti tisṛbhiḥ vīriṇatūlamiśritamiṅgiḍaṃ palāśapuṭena juhoti | uttaratantram | tantraṃ kṛtvā 'śanno devī pṛśniparṇī' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | uttaratantram | grahasyābhicāro'yam | tantraṃ kṛtvā 'ā paśyati' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhoti | uttaratantram | ājyatantraṃ kṛtvā 'tāntsatyaujāḥ', 'tvayā pūrvam' iti sūktābhyāṃ vīriṇatūlamiśramiṅgiḍaṃ prapuṭena juhoti | uttaratantram | piśācasyābhicārakarma | tantraṃ kṛtvā 'purastādyuktaḥ' iti sūktena vīriṇatūlamiśritamiṅgiḍaṃ parṇapuṭena juhoti | uttaratantram | 'rakṣohaṇam' ityanuvākena vīriṇatūlamiśritamiṅgiḍaṃ prapuṭena juhotyājyatantre | grahābhicāraḥ samāptaḥ || athāsmin gṛhe piśāco'sti vā na veti saṃśaye idaṃ karma ucyate - [idhmābarhiḥ śālāyāmāsajati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.