ऽवेनस्तत्ऽ इति सूक्तेन पञ्चग्रन्थिवेणुदण्डमभिमन्त्र्यायाच्य समे धारयत्यभीष्टदिशि पतनेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेनेषुं सन्धायाभिमन्त्र्यायाचेत् । चिन्तितप्रक्षेपणेनार्थम् । ऽवेनस्तत्ऽ इति सूक्तेन कुम्भ उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । यथाचिन्तितं तथा सिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन कमण्डलुमुदकपूर्णं दुग्धमाक्षिप्याभिमन्त्र्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । स्त्यायनेनार्थसिद्धिः । ऽवेनस्तत्ऽ इति सूक्तेन काम्पीलशाखां मूर्ध्ना धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेन युगमभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेनेध्मन्यभिमन्त्र्यायाचेत् । अग्नौ प्रक्षिपेत । प्रदक्षिणज्वलनेनार्थः । ऽवेनस्तत्ऽ इत्यक्षावभिमन्त्र्य पातयति । अभियातनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेन हस्तयोरङ्गुलिद्वयमभिमन्त्र्यायाचेत् । अज्ञाने स्पर्शनेनार्थः । ऽवेनस्तत्ऽ इति सूक्तेनैकविंशत्या शर्करा अभिमन्त्र्यायाचेत् । समविषमभावेन यथावतार्थः ॥ अथ नष्टद्रव्ये परीक्षणे क्रियमाणे च इदं कर्म - [कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते सम्पातानतिनयति
'venastat' iti sūktena pañcagranthiveṇudaṇḍamabhimantryāyācya same dhārayatyabhīṣṭadiśi patanenārthasiddhiḥ | 'venastat' iti sūkteneṣuṃ sandhāyābhimantryāyācet | cintitaprakṣepaṇenārtham | 'venastat' iti sūktena kumbha udakapūrṇaṃ dugdhaṃ prakṣipyāyācet | ūnādhikenārthasiddhiḥ | yathācintitaṃ tathā siddhiḥ | 'venastat' iti sūktena kamaṇḍalumudakapūrṇaṃ dugdhamākṣipyābhimantryāyācet | ūnādhikenārthasiddhiḥ | 'venastat' iti sūktena darbhastambamabhimantryāyācet | styāyanenārthasiddhiḥ | 'venastat' iti sūktena kāmpīlaśākhāṃ mūrdhnā dhārayitvābhimantryāyācet | iṣṭadikpatanenārthaḥ | 'venastat' iti sūktena yugamabhimantryāyācet | iṣṭadikpatanenārthaḥ | 'venastat' iti sūktenedhmanyabhimantryāyācet | agnau prakṣipeta | pradakṣiṇajvalanenārthaḥ | 'venastat' ityakṣāvabhimantrya pātayati | abhiyātanenārthaḥ | 'venastat' iti sūktena hastayoraṅgulidvayamabhimantryāyācet | ajñāne sparśanenārthaḥ | 'venastat' iti sūktenaikaviṃśatyā śarkarā abhimantryāyācet | samaviṣamabhāvena yathāvatārthaḥ || atha naṣṭadravye parīkṣaṇe kriyamāṇe ca idaṃ karma - [kumbhamahatena pariveṣṭyādhāya śayane vikṛte sampātānatinayati
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.