तन्त्रं कृत्वा ऽवेनस्तत्ऽ इति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा ऽवेनस्तत्ऽ इति सूक्तेनाक्षान् कुम्भवत् कृत्वा सम्पात्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । समाप्तं नष्टद्रव्ये परीक्षणे विज्ञानम् ॥ अथ कुमारीविज्ञानमुच्यते - [लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्व इति
tantraṃ kṛtvā 'venastat' iti sūktenāhatena vastreṇa veṣṭitaṃ halaṃ sampātyābhimantrya yena haretāṃ tato naṣṭam | tata uttaratantram | abhyātānāntaṃ kṛtvā 'venastat' iti sūktenākṣān kumbhavat kṛtvā sampātya yena haretāṃ tato naṣṭam | tata uttaratantram | samāptaṃ naṣṭadravye parīkṣaṇe vijñānam || atha kumārīvijñānamucyate - [loṣṭānāṃ kumārīmāha yamicchasi tamādatsva iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.